________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 26 // भाषाद्रव्य शब्दद्रव्याणि गृह्णाति, चशब्दस्त्वेवकारार्थः, स चाप्यवधारणे, तस्य च व्यवहितः सम्बन्धः, गृह्णाति कायिकेनैव, निसृजत्यु- पीठिका त्सृजति मुञ्चतीति पर्यायाः, तथेत्यानन्तर्यार्थः, उक्तिर्वाक्वाचा निर्वृत्तोवाचिकस्तेन वाचिकेन योगेन / कथं गृह्णाति निसृजतीति ०.१ज्ञान पञ्चकरूपा वा? किमनुसमयं उत अन्यथेत्याशङ्कासंभवे सति शिष्यानुग्रहार्थमाह- एकान्तरमेव गृह्णाति, निसृजति एकान्तरं चैव, अयमत्र नन्दी , भावार्थः- प्रतिसमयं गृह्णाति मुञ्चति चेति, कथं?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरम्, पुरुषाद्वा पुरुषोऽनन्तरोऽपि सन्निति, नियुक्तिः एवमेकैकस्मात्समयाद्एकैक एव एकान्तरोऽनन्तरसमय एवेत्यर्थः / अयंगाथासमुदायार्थः / अत्र कश्चिदाह-ननु कायिकेनैव ग्रहणनिसर्गी। गृह्णातीत्येतद्युक्तम्, तस्यात्मव्यापाररूपत्वात्, निसृजति तुकथंवाचिकेन?, कोवाऽयं वाग्योग इति / किं वागेव व्यापारापन्ना आहोश्वित् तद्विसर्गहेतुः कायसंरम्भ इति?, यदि पूर्वो विकल्पः, स खल्वयुक्तः, तस्या योगत्वानुपपत्तेः, तथा च न वाक्केवला जीवव्यापारः, तस्याः पुद्गलमात्रपरिणामरूपत्वात्, रसादिवत्, योगश्चात्मनःशरीरवतो व्यापार इति, न च तया भाषया निसृज्यते, किन्तु सैव निसृज्यत इत्युक्तम्, अथ द्वितीयः पक्षः, ततः स कायव्यापार एवेतिकृत्वा कायिकेनैव निसृजतीत्यापन्नम्, अनिष्टं चैतत् इति, अत्रोच्यते, न, अभिप्रायापरिज्ञानात्, इह तनुयोगविशेष एव वाग्योगो मनोयोगश्चेति, कायव्यापारशून्यस्य सिद्धवत् तदभावप्रसङ्गात्, ततश्चात्मनः शरीरव्यापारे सति येन शब्दद्रव्योपादानं करोति स कायिकः, येन तु कायसंरम्भेण तान्येव मुञ्चति स वाचिक इति, तथा येन मनोद्रव्याणि मन्यते स मानस इति, कायव्यापार एवायं व्यवहारार्थं त्रिधा विभक्त इत्यतोऽदोषः। तथा एकान्तरं च गृह्णाति, निसृजत्येकान्तरं चैव इत्यत्र केचिदेकैकव्यवहितं एकान्तरमिति मन्यन्ते, तेषां चल विच्छिन्नरत्नावलीकल्पो ध्वनिरापद्यते, सूत्रविरोधश्च, यत उक्तं - अणुसमयमविरहियं निरन्तरं गिण्हइत्ति / आह- यत्पुनरिदमुक्तं शब्दद्रव्यसंहतिरूपा भाषा। (c) इतिहेतोः। ॐ व्यापारविशेषेण / समयस्य सूक्ष्मतमत्वेन आह- सूत्रेत्यादि। // 26 //