SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ विषयायांच प्रवृत्तौ वितथासेवने मिथ्यादुष्कृतं दोषापनयनायालम्, न तूपेत्यकरणगोचरायां नाप्यसकृत्करणगोचरायामिति गाथाहृदयार्थः। तथा चोत्सर्गमेव प्रतिपादयन्नाह नि०- जइ य पडिक्कमियव्वं अवस्स काऊण पावयं कम्मं / तं चेवन कायव्वं तो होइपए पडिक्वंतो॥६८३॥ * यदिच प्रतिक्रान्तव्यं निवर्तितव्यम्, मिथ्यादुष्कृतं दातव्यमित्यर्थः, अवश्यं नियमेन कृत्वा पापकं कर्म, ततश्च तदेव पाप कर्म न कर्त्तव्यम्, ततो भवति पदे उत्सर्गपदविषये प्रतिक्रान्त इति / अथवा- पदे त्ति प्रथमं प्रतिक्रान्त इति गाथार्थः॥ साम्प्रतं यथाभूतस्येदं मिथ्यादुष्कृतं सुदत्तं भवति तथाभूतमभिधित्सुराह नि०-जंदुक्कडंति मिच्छा तं भुज्जो कारणं अपूरेतो। तिविहेण पडिक्कतो तस्स खलु दुक्कडं मिच्छा / / 684 // यदित्यनिर्दिष्टस्य निर्देशः, करणमिति योगः, ततश्च यत्कारणं यद् वस्तु दुष्ठ कृतं दुष्कृतं इति एवं विज्ञाय मिच्छ त्ति सूचनात्सूत्रमितिकृत्वा मिथ्यादुष्कृतं दत्तम्, तद् भूयः पुनः प्रागुक्तं दुष्कृतकारणं अपूरयन् अकुर्वन्ननाचरन्नित्यर्थः, यो वर्तत इति वाक्यशेषः, तस्स खलु दुक्कडं मिच्छ त्ति सम्बद्ध एव ग्रन्थः, तत्र स्वयं कायेनाप्यकुर्वन्नपूरयन्नभिधीयत एवेत्यत आहतिविहेण पडिक्कतो त्ति त्रिविधेन मनोवाक्कायलक्षणेन योगेन कृतकारितानुमतिभेदयुक्तेन प्रतिक्रान्तो निवृत्तो यस्तस्माद्दुष्कृतकारणात् तस्यैव, खलुशब्दोऽवधारणे, दुष्कृतं प्रागुक्तं दुष्कृतफलदातृत्वमधिकृत्य मिथ्ये ति मिथ्या, भवतीति क्रियाध्याहारः अथवा व्यवहितयोगात्तस्यैव मिथ्यादुष्कृतं भवति नान्यस्येति गाथार्थः / साम्प्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग् भवति तत्प्रतिपादनायाह नि०-जंदुक्कडंति मिच्छा तंचेव निसेवए पुणोपावं / पञ्चक्खमुसावाई मायानियडीपसंगो य॥६८५॥ 0.3 उपोद्धातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्ति: 682 वितथे मिथ्या, अकरणं, भूयोऽकारः, करणे माया, मिथ्यादुष्कृताक्षरार्थः। // 461 // // 461 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy