________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ / / 439 // त्कारिक्षायिकभावस्थान सन्ति, यतो ज्ञस्वभाव आत्मा ज्ञानावरणीयप्रतिबद्धस्वभावत्वात् नाशेषं वस्तु विजानाति, तत्क्षयोपशमजस्तु तस्य स्वरूपाविर्भावविशेषो दृश्यते, तथा च कश्चिद्बहु जानाति कश्चिद्बहुतरमिति क्षायोपशमिकोऽयं ज्ञानवृद्धिभेद इति, न ह्ययं ज्ञानविशेषः खल्वात्मनस्तत्स्वाभाव्यमन्तरेणोपपद्यते इति, एवं चापगताशेषज्ञानावरणस्य ज्ञस्वभावत्वादशेषज्ञेयपरिच्छेदकत्वमिति, तथा चास्मिन्नेवार्थे लौकिको दृष्टान्तः, यथा हि पद्मरागादिरुपलविशेषो भास्वरस्वरूपोऽपि स्वगतमलकलङ्काङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतस्तदपाये प्रकाशयति, एवमात्मापि ज्ञस्वभाव कर्ममलिनः प्रागशेष वस्त्वप्रकाशयन्नपि सम्यक्त्वज्ञानतपोविशेषसंयोगोपायतोऽपेतसमस्तावरणः सर्वं वस्तु प्रकाशयति, प्रतिबन्धकाभावात्, न चाप्रतिबद्धस्वभावस्यापि पद्मरागवत्सर्वत्र प्रकाशनव्यापाराभावः, तस्य ज्ञस्वभावत्वाद्, न हि ज्ञो. ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्त्तते, नच प्रकाशकस्वभावपद्मरागेणैव व्यभिचारो भावयितव्यः, तस्य सन्निकृष्टार्थप्रकाशनात्, विप्रकृष्टविषये तु देशविप्रकर्षेणैव प्रतिबद्धत्वादप्रवृत्तिः, न चात्मनोऽपि देशविप्रकर्ष एवापरिच्छेदहेतुः, तस्यागमगम्येषु निर्वाणसूक्ष्मव्यवहितविप्रकृष्टेष्वखिलपदार्थेष्वधिगतिसामर्थ्यदर्शनात्, तथा च परमाणुमूलकीलोदकामरलोकचन्द्रोपरागादिपरिच्छेदसामर्थ्यमस्यागमोपदेशतः क्षयोपशमवतोऽपिदृश्यते, एवं साक्षात्कारि क्षायिकमपि प्रतिपत्तव्यमिति / एवं क्षायिकज्ञान परिवारः, अमर्षः, वतां नारकाः प्रत्यक्षा एव, भवतोऽप्यनुमानगम्याः, तच्चेदं-विद्यमानभोक्तृकं प्रकृष्टपापफलम्, कर्मफलत्वात्, पुण्यफलवत्, वेदपदार्थ:, नचतिर्यग्नरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, अनुत्तरसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्, तथाऽऽगमगम्याश्च ते, यत एवमागमः- सततानुबन्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् / तिर्यसूष्णभयक्षुत्तृडादिदुःखं सुखं चाल्पम्॥ 1 // सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे। सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम् // 2 // इत्यादि, एवं - 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्ति: 628 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतजीव-भूतताटश-बन्धदेव-नारकपुण्य-परलोक संशयाः, दीक्षा। // 439 //