________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 440 // 0.3 उपोद्धातनियुक्तिः, | 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्तिः 629-632 देवघोषः, गणधरा नि०- छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वइओ तिहि उसह खंडियसएहिं॥६२९॥ पूर्ववन्नवरं त्रिभिः सह खण्डिकशतैरिति // अष्टमो गणधरः समाप्तः॥ नि०- ते पव्वइए सोउं अयलभाया आगच्छइ जिणसगासं। वच्चामिण वंदामी वंदित्ता पब्रुवासामि // 630 // पूर्ववन्नवरं-अचलभ्राता आगच्छति जिनसकाशमिति / नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं। नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 631 // सपातनिका पूर्ववत्। नि०- किं मन्नि पुण्णपावं अत्थिन अत्थित्ति संसओ तुझं। वेयपयाण च अत्थंण याणसी तेसिमो अत्थो॥६३२॥ किं पुण्यपापे स्तः न वा? मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो दर्शनान्तरविरुद्धश्रुतिप्रभवश्च, तत्र वेदपदानां चार्थं न जानासि, चशब्दाधुक्तिं हृदयं च, तेषामयमर्थ इत्यक्षरार्थः / तानि चामूनि वेदपदानिपुरुष एवेदं निं सर्व मित्यादीनि यथा द्वितीयगणधरे, व्याख्यापि तथैव, स्वभावोपन्यासोऽपि तथैव, तथा सौम्याचलभ्रातः! त्वमित्थं मन्यसे- दर्शनविप्रतिपत्तिश्चात्र, तत्र केषाश्चिद्दर्शनं- पुण्यमेवैकमस्ति न पापम्, तदेव चावाप्तप्रकर्षावस्थं स्वर्गाय क्षीयमाणं तु मनुष्यतिर्यनारकादिभवफलाय, तदशेषक्षयाच्च मोक्ष इति, यथाऽत्यन्तपथ्याहारासेवनादुत्कृष्टमारोग्यसुखं भवति, वेदपदार्थः, किञ्चित्किञ्चित्पथ्याहारपरिवर्जनाचारोग्यसुखहानिः, अशेषाहारपरिक्षयाच्च सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकम्, न पुण्यमस्ति, तदेव चोत्तमावस्थामनुप्राप्तं नारकभवायालम्, क्षीयमाणं तु तिर्यग्नरामरभवायेति, तदत्यन्तक्षयाच्च मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात्परमनारोग्यम्, तस्यैव किञ्चित्किञ्चिदपकर्षादारोग्यसुखम्, अशेषपरित्यागान्मृतिकल्पो (११)ऽऽगमः जीव-कर्मतखीव-भूतताश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्षः, // 440 //