________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 612 देवघोषः, गणधरा भाग-१ // 431 // sss तथा चाशेषपदार्थव्यावृत्तमपि खपुष्पं स्वरूपाभावान्न सत्तां धारयति, न च तद्रूपमेव सजातीयेतरासाधारणं तदन्यव्यावृत्तिः, तस्य तेभ्यः स्वभावभेदेन व्यावृत्तेः, स्वभावभेदानभ्युपगमेच सजातीयेतरभेदानुपपत्तेः, सजातीयैकान्तव्यावृत्तौ च विजातीयव्यावृत्तावनणुत्ववदणुत्वाभावप्रसङ्गः,भावे च तुल्यरूपसिद्धिरिति, न चेयमनिमित्ता तुल्यबुद्धिः, देशादिनियमेनोत्पत्तेः, न च स्वप्नबुद्ध्या व्यभिचारः, तस्या अप्यनेकविधनिमित्तबलेनैव भावात्, आह च भाष्यकार:- अणुभूय दिट्ठ चिन्तिय सुय पयइवियार देवयाऽणूया। सुमिणस्स निमित्ताइंपुण्णं पावंच नाभावो॥१॥न च भूताभावे स्वप्नास्वप्नगन्धर्वपुरपाटलिपुत्रादिविशेषो युज्यते, नचालयविज्ञानगतशक्तिपरिपाकसमनन्तरोपजातविकल्पविज्ञानसामर्थ्यमस्यास्तुल्यबुद्धेः कारणम्, स्वलक्षणादस्व- लक्षणानुपपत्तेः, नापि पारम्पर्येण तदुत्पत्तियुज्यते, स्वलक्षणसामान्यलक्षणातिरिक्तवस्त्वभावेन पारम्पर्यानुपपत्तेः, बाह्यनीलाद्यभावे च शक्तिविपाकनियमो न युज्यते, नियामकसहकारिकारणाभावात् / किंच- आलयात्पीतादिसंवेदनजननशक्तयो भिन्ना वा स्युरभिन्नावा?, यद्यभिन्नाः सर्वैकत्वप्रसङ्गः, एकालयाभेदान्यथानुपपत्तेः, ततश्चकुतस्तासांपीतादिप्रतिभासहेतुता?, प्रयोगश्च-नीलविज्ञानहेतुतया परिकल्पिता शक्तिर्न तद्धर्मा, शक्त्यन्तररूपत्वात्, शक्त्यन्तरस्वात्मवत्, अथ भिन्नास्तथाप्यवस्तुसत्यो वा स्युः वस्तुसत्यो वा?, यद्यवस्तुसत्यः समूहवत्कुतःप्रत्ययत्वं?, अथ वस्तुसत्यो बाह्योऽर्थः केन वार्यत इति?, एवमणूनां तुल्यरूपग्रहणं तदाभासज्ञानोत्पत्तेः, न च विषयबलोपजातसंवेदनाकारस्य विषयाद्भेदाभेदविकल्पद्वारेणानुपपत्तिर्भाव्या, विशिष्टपरिणामोपेतार्थसन्निधावात्मनः कालक्षयोपशमादिसव्यपेक्षस्य नीलादिविज्ञानमुत्पद्यते, तथापरिणामाद्, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा नीलात्संवेदनानीलसंवेदनान्तरानुपपत्तिः,प्रागुपन्यस्तविकल्पयुगलक (r) अनुभूतं दृष्टं चिन्तितं श्रुतं प्रकृतिविकारः देवताऽनूपः / स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः // 1 // जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशया:, परिवार: अमर्ष:, वेदपदार्थ: दीक्षा। // 431 //