________________ KO. श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 432 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्तिः 613-616 देवघोषः, गणधरा सम्भवादित्येवं परमाणुतुल्यरूपग्रहोऽविरुद्धः, अतुल्यरूपं तु योगिगम्यत्वात् विशिष्टक्षयोपशमाभावात्सर्वथा न परिगृ न च परमाणूनां बहुत्वेऽपि विशेषाभावाद्घटशरावादिबुद्धेः तुल्यत्वप्रसङ्गो, विशेषाभावस्यासिद्धत्वात्, तथा च परमाणव एव विशिष्टपरिणामवन्तो घट इति, न च परमाणुसमुदायातिरिक्तानि भूतानि इत्यलं प्रसङ्गेन / नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वईओ पंचहिँ सह खंडियसएहिँ // 613 // पूर्ववत् // इति चतुर्थो गणधरः समाप्तः।। नि०- ते पव्वइए सोउंसुहमो आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पज्जुवासामी॥६१४॥ तान् इन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा सुधर्मः पञ्चमो गणधर आगच्छति जिनसकाशम्, किम्भूतेनाध्यवसायेन इत्याहपश्चार्द्ध पूर्ववत् / स च भगवन्तं दृष्ट्वा अतीव मुमुदे, अत्रान्तरे नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 615 // पूर्ववत्। नि०- किं मण्णि जारिसोइह भवंमि सो तारिसो परभवेऽवि? / वेयपयाण य अत्थं ण जाणसी तेसिमो अत्थो॥६१६॥ किं मन्यसे? यो मनुष्यादिदृश इह भवे स तादृशः परभवेऽपि, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, संशयश्च तवायं विरुद्धवेदपदश्रुतिनिबन्धनो वर्त्तते, तानिचामूनि-पुरुषो वै पुरुषत्वमश्नुतेपुरुषत्वं प्राप्नोतीत्यर्थः पशवः पशुत्वं इत्यादीनि, तथा शृगालो वै एष जायते यः सपुरीषो दह्यते इत्यादीनी च, तत्र वेदपदानां चार्थं न जानासि, चः पूर्ववत्, तेषामयमोंवक्ष्यमाणलक्षण इत्यक्षरार्थः / तत्र वेदपदानां त्वमित्थमर्थं मन्यसे- पुरुषो मृतः सन् पुरुषत्वमश्नुते, पुरुषत्वमेव प्राप्नोतीत्यर्थः, (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोक निर्वाण संशया:, परिवारः, अमर्ष:, वदपदार्थ: // 432 //