________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 430 // पूर्ववत्। नि०- किं मण्णि पंच भूया अत्थि नत्थित्ति संसओ तुझं / वेयपयाण य अत्थं ण जाणसी तेसिमो अत्थो // 612 // किं पञ्च भूतानि पृथिव्यादीनि सन्ति न सन्तीति वा मन्यसे, व्याख्यान्तरं पूर्ववत् / संशयश्च तवायं विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, शेषं पूर्ववत् तानि चामूनि वेदपदानि वर्तन्ते- स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा विज्ञेय इत्यादीनि, तथा द्यावा पृथिवीइत्यादीनिच, तथा पृथ्वी देवता आपो देवता इत्यादीनि च, एतेषां चायमर्थः तव प्रतिभासते-स्वप्नोपमं स्वप्नसदृशम्, वैनिपातोऽवधारणे सकलं अशेषं जगत् एष ब्रह्मविधिः एष परमार्थप्रकार इत्यर्थः अञ्जसा प्रगुणेन न्यायन विज्ञेयो विज्ञातव्यो भाव्य इत्यर्थः, ततश्चामूनि किल भूतनिह्नवपराणि, शेषाणि तु सत्ताप्रतिपादकानीति, अतः संशयः, तथा भूताभाव एव च युक्त्युपपन्नः, ते चित्तविभ्रमः, तेषां प्रमाणतोऽग्रहणात्, तथाहि- चक्षुरादिविज्ञानस्य आलम्बनं परमाणवो वा स्युः परमाणुसमूहो वा?, न तावदणवो, विज्ञाने अप्रतिभासनात्, नापि तत्समूहो, भ्रान्तत्वात्, द्विचन्द्रवत्, भ्रान्तता चास्य समूहिभ्यस्तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वात् अवस्तुत्वात्, अतः कुतोभूतसत्तेति, तत्र वेदपदानांचाथन जानासि, चशब्दाधुक्तिं हृदयं च तेषां तव संशयनिबन्धनानां वेदपदानामयमर्थः,स्वप्नोपमं वैसकल मित्यादीन्यध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्यानियतत्वादस्थिरत्वादसारत्वाद्विपाककटुकत्वादास्थानिवृत्तिपराणि वर्त्तन्ते, न तु तदत्यन्ताभावप्रतिपादकानि इति, तथा द्यावापृथिवी त्यादीनि तु सुगमानि, तथा सौम्य! न च चक्षुरादिविज्ञाने परमाणवोनावभासन्ते, तेषां तुल्यातुल्यरूपत्वात्, तुल्यरूपस्य च चक्षुरादिविज्ञाने प्रतिभासनात्, न च तुल्यं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुव्यतिरेकेणान्येषामणुत्वाभावप्रसङ्गात्, न च तद् अन्यव्यावृत्तिमात्रंपरिकल्पितमेव, स्वरूपाभावेऽन्यव्यावृत्तिमात्रतायां तस्य खपुष्पकल्पत्वप्रसङ्गात्, 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्ति: 612 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतजीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशया:, परिवारः, अमर्षः वेदपदार्थ: दीक्षा। // 430 //