SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 23 // पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी , नियुक्तिः इन्द्रियाणां प्राप्तप्राप्तविषयता। कस्माच्चक्षुरादीनि रूपादिकमर्थं न गृह्णन्तीति, उच्यते, सामर्थ्याभावात्, द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च, मनसस्तु न क्षेत्रतो विषयपरिमाणमस्ति, पुद्गलमात्रनिबन्धनाभावात्, इह यत् पुद्गलमात्रनिबन्ध नियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलज्ञानस्य, यस्य च विषयपरिमाणमस्ति, तत्पुद्गलमात्रनिबन्धनियतं दृष्टम्, यथाऽवधिज्ञानं मनःपर्यायज्ञानं वेति गाथासमासार्थः॥ साम्प्रतं यदुक्तमासीत् यथा नयनमनसोरप्राप्तकारित्वं पुढं सुणेइ सई' इत्यत्र वक्ष्यामः, तदुच्यते, नयनं योग्यदेशावस्थिताप्राप्तविषयपरिच्छेदकम्, प्राप्तिनिबन्धनतत्कृतानुग्रहोपघातशून्यत्वात्, मनोवत्, स्पर्शनेन्द्रियं विपक्ष इति / आह- जलघृतवनस्पत्यालोकनेष्वनुग्रहसद्भावात् सूर्याद्यालोकनेषु चोपघातसद्भावात् असिद्धो हेतुः, मनसोऽपि प्राप्तविषयपरिच्छेदकत्वात्साध्यविकलो दृष्टान्तः, तथाच लोके वक्तारो भवन्ति-अमुत्र मे गतं मनः इति, अत्रोच्यते, प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वाद् अस्याक्षेपस्येत्यदोषः। किंच- यदि हि प्राप्तिनिबन्धनौ विषयकृतावनुग्रहोपघातौ स्याताम्, एवं तर्हि अग्निशूलँजलाद्यालोकनेषु दाहभेदक्लेदादयः स्युरिति / किंच-प्राप्तविषयपरिच्छेदकत्वे सति अक्षिअञ्जनमलशलाकादिकमपि गृह्णीयात्। आह-नायना मरीचयो निर्गत्य तमर्थं गृह्णन्ति, ततश्च तेषां तैजसत्वात् सूक्ष्मत्वाच्चानलादि संपर्केसत्यपिदाहाद्यभाव इति, अत्रोच्यते, प्राक् प्रतिज्ञातयोरनुग्रहोपघातयोरप्यभावप्रसङ्गाद् अयुक्तमेतत्, तदस्तित्वस्य उपपत्त्या ग्रहीतुमशक्यत्वाच्च / ®सर्वेन्द्रियापेक्षया। 0 प्राप्यकारीन्द्रियचतुष्कापेक्षया। 0 क्षेत्रेति। ॐ विषयेति / ॐ निबन्धन. 1-2-3-4 / 0 निबन्धन. 1-2-3-4 / 0 विप्रकृष्टे कस्मिंश्चिन्निर्दिश्यमाने स्थले इति। (c) जलशूला। 0 क्लेदभेदा। ®नयनमरीचीनामेव निर्गमात् चक्षुषश्चानिर्गमात् / ®सुवर्णादीनां भेदादिभावात् तैजसत्वेऽपि आह- सूक्ष्मत्वाचेति। (r) शूलजलादिः। (r) प्राप्तिनिबन्धनेत्यादिहेतोरसिद्धतोद्भावने। 0 नायनमरीचीनाम्। 9 अयुक्तमेतदिति संटङ्कः।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy