________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 22 // प्राप्तप्राप्त सर्वश्रोतृसाधारणत्वाच्छास्त्रारम्भस्यायमदोष इति / त्रिप्रकाराश्च श्रोतारोभवन्ति-केचिद् उद्घाटितज्ञाः, केचित् मध्यमबुद्धयः, पीठिका तथाऽन्ये प्रपञ्चितज्ञा इति, तत्र प्रपञ्चितज्ञानां अनुग्रहाय गम्यमानस्याप्यभिधानमदोषायैव, अथवा विशेषणसमासाङ्गी- ०.१ज्ञान पञ्चकरूपा करणाददोषः, स्पृष्टं च तद्बद्धं च स्पृष्टबद्धम्, तत्र स्पृष्टं गन्धादि विशेष्यम्, बद्धमिति च विशेषणम्। आह- एवमपि | नन्दी , स्पृष्टग्रहणमतिरिच्यते, यस्माद्यद्बद्धं न तत्स्पृष्टत्वव्यभिचारि, उभयपदव्यभिचारे च विशेषणविशेष्यभावो दृष्टो यथा ? नियुक्ति:५ इन्द्रियाणां नीलोत्पलमिति, न चेह उभयपदव्यभिचारः, अत्रोच्यते, नैष दोषः, यस्मादेकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्टो, यथा अब्द्रव्यं पृथिवी द्रव्यमिति, भावनाअब् द्रव्यमेव, न द्रव्यत्वं व्यभिचरति, द्रव्यं पुनरब चानब् चेति व्यभिचारि, अथ च विषयता। विशेषणविशेष्यभाव इति / प्रकृतभावार्थस्त्वयं- आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वाद् अभावुकत्वात् अल्पद्रव्यरूपत्वात् घ्राणादीनां चापटुत्वात् गृह्णाति निश्चिनोति घ्राणेन्द्रियादिगण इत्येवं व्यागृणीयात् प्रतिपादयेदिति यावत् / आह-भवतोक्तं योग्यदेशावस्थितमेव रूपं पश्यति, न पुनरयोग्यदेशावस्थितमिति, तत्र कियान् पुनश्चक्षुषो योग्यविषयः? कियतो वा देशादागतं श्रोत्रादि शब्दादि गृह्णातीति, उच्यते, श्रोत्रं तावच्छब्दं जघन्यतः खल्वङ्गलासंख्येयमात्राद्देशात्, उत्कृष्टतस्तु द्वादशभ्यो योजनेभ्य इति, चक्षुरिन्द्रियमपि रूपं जघन्येनाङ्गलसंख्येयभागमात्रावस्थितं पश्यति, उत्कृष्टतस्तु योजनशतसहस्राभ्यधिकव्यवस्थितं इति, घ्राणरसनस्पर्शनानि तु जघन्येनाङ्गलासंख्येयभागमात्राद्देशादागतं गन्धादिकं गृह्णन्ति, उत्कृष्टतस्तु नवभ्यो योजनेभ्य इति / आत्माङ्गलनिष्पन्नं चेह योजनं ग्राह्यमिति / आह- उक्तप्रमाणं विषयमुल्लङ्घय ®वा। (r) वेति / 0 श्रोत्रापेक्षयाऽपि। 0 पुनःशब्देन विशेषितेऽस्पृष्टत्वे या भणितिस्तदपेक्षया प्राक् प्रश्नः, समग्रगाथापेक्षया विषयक्षेत्रपरिमाणज्ञानार्थश्च द्वितीय इति।