________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 21 // जीविनां चासंख्येयमिति गाथार्थः॥ 4 // इत्थमवग्रहादीनां स्वरूपमभिधाय इदानीं श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां पीठिका प्रतिपिपादयिषुराह ०.१ज्ञान पवकरूपा नि०- पुढे सुणेइ सई रूवं पुण पासई अपुढे तु / गंधं रसंच फासंच बद्धपुढे वियागरे॥५॥ नन्दी, आह-ननु व्यञ्जनावग्रहनिरूपणाद्वारेण श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्रतिपादितैव, किमर्थं पुनरयं प्रयास इति, नियुक्ति: 5 इन्द्रियाणां उच्यते, तत्र प्रक्रान्तगाथा व्याख्यानद्वारेण प्रतिपादिता, साम्प्रतं तु सूत्रतः प्रतिपाद्यत इत्यदोषः / तत्र स्पृष्टं इत्यालिङ्गितम्, प्राप्तप्राप्ततनौ रेणुवत्, शृणोति गृह्णाति उपलभत इति पर्यायाः, कं?- शब्द्यतेऽनेनेति शब्दः तं शब्दप्रायोग्यं द्रव्यसंघातम्, इदमत्र विषयता। हृदयं- तस्य सूक्ष्मत्वात् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणात्प्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति / रूप्यत इति रूपं तद्रूपं पुनः, पश्यति गृह्णाति उपलभत इत्येकोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवन्न संबद्धमित्यर्थः, तुशब्दस्त्वेवकारार्थः, सचावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि?- अस्पृष्टमपि योग्यदेशावस्थितम्, न पुनरयोग्यदेशावस्थितं अमरलोकादि / गन्ध्यते घ्रायत इति गन्धस्तम्, रस्यत इति रसस्तंच, स्पृश्यत इति स्पर्शस्तं च, चशब्दौ पूरणार्थों, बद्धस्पृष्टं इति बद्धमाश्लिष्टं नवशरावे तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत्, प्राकृतशैल्या चेत्थमुपन्यासो बद्धपुटुंति, अर्थतस्तुस्पृष्टं च बद्धंच स्पृष्टबद्धम्।। आह- यदूद्धं गन्धादि तत् स्पृष्टं भवत्येव, अस्पृष्टस्य बन्धायोगात्, ततश्च स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थकमिति, उच्यते, - दर्शनाय पल्योपमेत्यादि / चक्षुर्मनसोरसत्यपि व्यञ्जनावग्रहेऽर्थावग्रहसद्भावादस्त्येव पटुतरतेति प्राय इति / स्पर्शाभावे बन्धाभावसत्त्वेऽपि स्पष्टत्वार्थमेतत्, घ्राणादीन्द्रियेभ्यो निपुणताख्यापनाय वा। 0 नास्तीदम् 1-2-3-4 | 8888 // 21 //