________________ ०.१ज्ञानपञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 20 // तत्र अभिहितलक्षणोऽर्थावग्रहो जघन्यो नैश्चयिकः, स खलु एकं समयं भवतीति सम्बन्धः, तत्र कालः परमनिकृष्टः पीठिका समयोऽभिधीयते, सच प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणाद् जरत्पदृशाटिकापाटनदृष्टान्ताच्च अवसेयः, तथा / सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथक् पृथग अन्तर्मुहूर्त्तमानं कालं भवत इति विज्ञातव्यौ। ईहा चावायश्च ईहावायौ, | नन्दी , प्राकृतशैल्या बहुवचनम्, उक्तं च- दुव्वयणे बहुवयणं छट्ठीविहत्तीऍ भण्णइ चउत्थी। जह हत्था तह पाया, णमोऽत्थु देवाहिदेवाणं॥ नियुक्तिः४ अवग्रहादेः १॥तावीहावायौ मुहूर्तार्धं ज्ञातव्यौ भवतः, तत्र मुहूर्त्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्यार्धं तु मुहूर्तार्धम्, कालमानम् / तुशब्दो विशेषणार्थः, किं विशिनष्टि?- व्यवहारापेक्षया एतद् मुहूर्तार्धमुक्तम्, तत्त्वतस्तु अन्तमुहूर्त्तमवसेयमिति / अन्ये त्वेवं पठन्ति 'मुहत्तमन्तं तु' मुहूर्तान्तस्तु द्वे पदे, अयमर्थः- अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्तं भवतिईहावायौ मुहूर्तान्तः, भिन्नं मुहूर्तं ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्यर्थः। कलनं कालस्तं कालम्, न विद्यते संख्या इयन्तः पक्षमासवयनसंवत्सरादय इत्येवंभूता यस्यासावसंख्यः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसंख्यम्, तथा संख्यायत इति संख्यः, इयन्तः पक्षमासत्वयनादय इत्येवं संख्याप्रमित इत्यर्थः, तंसंख्यंच, चशब्दात् अन्तर्मुहूर्तं च, धारणा अभिहितलक्षणा भवति ज्ञातव्या, अयमत्र भावार्थ:- अवायोत्तरकालं अविच्युतिरूपा- अन्तर्मुहूर्तं भवति, एवं स्मृतिरूपाऽपि, वासनारूपातु तदावरणक्षयोपशमाख्या स्मृतिधारणाया बीजभूता संख्येयवर्षायुषांसत्त्वानांसंख्येयंकालं असंख्येयवर्षायुषां पल्योपमादि अर्थावग्रहो द्विधा जघन्य उत्कृष्टश्च, आद्यो नैश्चयिक एवेतरः सांव्यवहारिक इति जघन्यो नैश्चयिक इति प्रोचुः, व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणमिति न्यायात् / रुजीर्यत्० 5-6 / 0 भाष्यकारादिव्याख्यानात् / ज्ञातव्यौ 1-2-3-4 5 बहुवयणेण दुवयणं 1-2-3-4 / 7 भण्णए 5-6 / 0 बहुवचनं द्विवचने षष्ठीविभक्तौ भण्यते चतुर्थी। यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः। अद्धाजोगुक्कोसे इत्यादिवचनादपवर्त्तनासंभवात्तद्रहितानामसंख्येयायुषामिति 2