SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्ति:४ अवग्रहादेः कालमानम्। वृत्तियुतम् भाग-१ // 19 // धरणमेव धारणां ब्रुवत इति, अनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकरगणधरा ब्रुवत इति / एवं शब्दमधिकृत्य श्रोत्रेन्द्रियनिबन्धना अवग्रहादयः प्रतिपादिताः, शेषेन्द्रियनिबन्धना अपिरूपादिगोचराः स्थाणुपुरुष-कुष्ठोत्पल-संभृतकरिल्लमांस-8 सर्पोत्पलनालादौ इत्थमेव द्रष्टव्याः, एवं मनसोऽपि स्वप्ने शब्दादिविषया अवग्रहादयोऽवसेया इति, अन्यत्र चेन्द्रियव्यापाराभावेऽभिमन्यमानस्येति / ततश्च व्यञ्जनावग्रहश्चतुर्विधः, तस्य नयनमनोवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियसंभवात् / एवमीहादयोऽपि प्रत्येकं षट्रप्रकारा एवेति / एवं संकलिताः सर्व एव अष्टाविंशतिर्मतिभेदा अवगन्तव्या इति ।अन्ये त्वेवं पठन्ति- ‘अत्थाणं उग्गहणंमि उग्गहो' तत्र अर्थानामवग्रहणे सति अवग्रहो नाम मतिभेद इत्येवं ब्रुवते, एवं ईहादिष्वपि योज्यम्, भावार्थस्तु पूर्ववदिति / अथवा प्राकृतशैल्या अर्थवशाद्विभक्तिपरिणाम इति यथाऽऽचाराङ्गे- अगणिं च खलु पुट्ठा एगे संघायमावजंति इत्यत्र अग्निना च स्पृष्टाः, अथवा स्पृष्टशब्दः पतितवाची, ततश्चायमर्थः- अग्नौ च पतिता एके शलभादयः संघातमापद्यन्ते अन्योऽन्यगात्रसंकोचमासादयन्तीत्यर्थः, तस्माद् अग्निसमारम्भोऽनेकसत्त्वव्यापत्तिहेतुः इत्यतो न कार्यः इत्यादिविचारे द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्यातेति / एवमत्रापि सप्तमी प्रथमार्थे द्रष्टव्येति गाथार्थः॥३॥ इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह नि०- उग्गह इक्कं समयं ईहावाया मुहुत्तमद्धंतु / कालमसंखं संखं च धारणा होइणायव्वा // 4 // Oन्धनावग्र०। 0 चक्षुरादीनां क्रमशो दृष्टान्तदर्शनात् कोष्ठपुटाख्यो गन्धद्रव्यविशेषः। 0 स्वप्नात् / 0 नोइन्द्रियस्यापि ग्रहणमुपलक्षणात्, अन्यथा न स्युर्भेदाः षट्, इन्द्रियत्वं वाभिप्रेतमत्र तस्याभ्यन्तरनिर्वृत्यन्वितत्वात्। एवेत्यर्थः, संक०। 0 उवगहो। ज्ञायतेऽनेन आचाराङ्गव्याख्या श्रीमतां कालात्प्राक्तनीति। 8 0 उग्गहु (नि०३)। 0 मुहुत्तमन्तं तु (वृ०)। B // 19 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy