SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 18 // नन्दी, तत्र अर्यन्ते इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत्, ते च रूपादयः, तेषां अर्थानाम्, प्रथमं दर्शनानन्तरं ग्रहणं पीठिका अवग्रहणं अवग्रहं ब्रुवत इतियोगः / आह- वस्तुनः सामान्यविशेषात्मकतयाऽविशिष्टत्वात् किमिति प्रथमं दर्शनं न ज्ञानमिति, 0.1 ज्ञान पञ्चकरूपा उच्यते, तस्य प्रबलावरणत्वात्, दर्शनस्य चाल्पावरणत्वादिति / स च द्विधा व्यञ्जनावग्रहोऽर्थावग्रहश्च, तत्र व्यञ्जनावग्रहपूर्वकत्वादर्थावग्रहस्य प्रथमं व्यञ्जनावग्रहः प्रतिपाद्यत इति / तत्र व्यञ्जनावग्रह इति कः शब्दार्थः?, उच्यते, व्यज्यतेऽनेनार्थः नियुक्ति:३ अवग्रहादेः प्रदीपेनेव घट इति व्यञ्जनम्, तच्च उपकरणेन्द्रियंशब्दादिपरिणतद्रव्यसंघातो वा, ततश्च व्यञ्जनेन उपकरणेन्द्रियेण शब्दादि स्वरूपम्। परिणतद्रव्याणांच व्यञ्जनानां अवग्रहो व्यञ्जनावग्रह इति / अयं च नयनमनोवर्जेन्द्रियाणामवसेय इति, न तु नयनमनसोः, अप्राप्तकारित्वात्, अप्राप्तकारित्वं चानयोः पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु इत्यत्र वक्ष्यामः / तथा च व्यञ्जनावग्रहचरमसमयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽर्थावग्रहः, सामान्यमात्रानिर्देश्यग्रहणमेकसामयिकमिति भावार्थः। तथा इत्यानन्तर्ये विचारणं पर्यालोचनं अर्थानामित्यनुवर्तते, ईहनमीहा ताम्, ब्रुवत इति सम्बन्धः। एतदुक्तं भवति-अवग्रहादुत्तीर्णः अवायात्पूर्वं सद्भतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागाभिमुखश्चप्रायो मधुरत्वादयः शङ्खशब्दधर्मा अत्र घटन्ते नखरकर्कशनिष्ठुरतादयः शाईशब्दधर्मा इति मतिविशेष ईहेति / विशिष्टोऽवसायो व्यवसायः, निर्णयो निश्चयोऽवगम इत्यनर्थान्तरम्, तंह व्यवसायंच, अर्थानामिति वर्त्तते, अवायं ब्रुवत इति संसर्गः, एतदुक्तं भवति-शाङ्खएवायंशाङ्ग एव वा इत्यवधारणात्मकः प्रत्ययोऽवाय इति, चशब्द एवकारार्थः, स चावधारणे, व्यवसायमेवावायं ब्रुवत इति भावार्थः / धृतिर्धरणम्, अर्थानामिति // 18 // वर्त्तते, परिच्छिन्नस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपं तद्धरणं पुनर्धारणां ब्रुवते, पुनः शब्दोऽप्येवकारार्थः, स चावधारणे, (r) ग्रहणं अवग्रहम् / ॐ अप्राप्यकारित्वात् 5.6 / 0 गाथा० 5 /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy