SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 427 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। 605-606 गणधरा जीव-कर्म इन्द्रियादिमत्त्वात्, युवशरीरवत्, न च जन्मान्तरातीतशरीरपूर्वकमेवेदम्, तस्यापान्तरालगतावभावेन तत्पूर्वकत्वानुपपत्तेः, न चाशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात्, न स्वभाव एव नियामको, वस्तुविशेषाकारणतावस्तुधर्मविकल्पानुपपत्तेः, स्वभावो हि वस्तुविशेषो वा स्यादकारणता वा वस्तुधर्मो वा?, न तावत् / वस्तुविशेषः, अप्रमाणकत्वात्, किं च- स मूर्तो वा स्यादमूर्तो वा?, यदि मूर्तः, कर्मणोऽस्य च न कश्चिद्भेदः, कम्मैव नियुक्तिः सज्ञान्तरवाच्यं तत्, अथ अमूर्तो, न तर्हि नियामको देहकारणंवा, अमूर्त्तत्वात्, गगनवत्, तथाहि-नामूर्तान्मूर्तप्रसूतिरिति, देवघोषः, न चाकारणता स्वभावः, कारणाभावस्याविशिष्टत्वात् युगपदशेषदेहसंभवप्राप्तेः, अकारणताविशेषाभ्युपगमे च तद्भाव-8 (११)ऽऽगमः प्रसङ्गः, न च वस्तुधर्मः स्वभावः, आत्माख्यवस्तुधर्मत्वेन अमूर्त्तत्वात्, गगनवत्, तस्य देहादिकारणत्वानुपपत्तेः, मूर्त्तवस्तु-8 तजीव-भूतधर्मत्वे पुनरसौ न पुद्गलपर्यायमतिवर्त्तते, कर्मापि च पुद्गलपर्यायानन्यरूपमेव इत्याविप्रतिपत्तिरिति, तस्मात् यच्छरीरपूर्वक देव-नारकबालशरीरं तत्कार्मणमिति, आगमगम्यं च एतत्, पुण्यः पुण्येन पापः पापेन कर्मणा इत्यादि श्रुतिवचनप्रामाण्यात्, तथा अमूर्तस्यापि आत्मनो विशिष्टपरिणामवतः मूर्त्तकर्मपुद्गलसम्बन्धोऽविरुद्ध एव, आकाशस्येव घटादिसंयोग इति, तथा अमूर्तस्यापि मूर्तकृतावुपघातानुग्रहावविरुद्धौ, विज्ञानस्य मदिरापानौषधादिभिः उपघातानुग्रहदर्शनात्, इत्यलं प्रसङ्गेनेति / नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं ।सोसमणो पव्वइओ पंचहि सह खंडियसएहिं॥६०५॥ इत्थं छिन्ने संशये जिनेन जरामरणविप्रमुक्तेन स श्रमणः प्रव्रजितः पञ्चभिः सह खण्डिकशतैः, भावार्थः सुगम इति गाथार्थः। 1605 // द्वितीयो गणधरः समाप्तः॥ नि०- ते पव्वइए सोउं तइओ आगच्छई जिणसगासं / वच्चामिण वंदामी वंदित्ता पञ्जुवासामि // 606 // तादृश-बन्ध पुण्य-परलोकनिर्वाणसशया:, परिवारः, अमर्ष: वेदपदार्थः, दीक्षा। // 427 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy