________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 426 // गणधरवक्तव्यता। 602-604 गणधरा (११)ऽऽगमः सच कर्मप्रधानादिव्यवच्छेदार्थः, इदं सर्वं प्रत्यक्षवर्तमानं चेतनाचेतनम्, निमिति वाक्यालङ्कारे, यद् भूतं यद् अतीतं यच्च 0.3 उपोद्घात नियुक्तिः, भाव्यं भविष्यम्, मुक्तिसंसारावपि स एव इत्यर्थः, उतामृतत्वस्येशान इति, उतशब्दोऽप्यर्थे, अपिशब्दश्च समुच्चये, अमृतत्वस्य 0.3.4 चतुर्थद्वारम् , अमरणभावस्य- मोक्षस्य ईशानः- प्रभुश्चेत्यर्थः यत् इति यच्चेति चशब्दलोपात्, अन्नेन आहारेण अतिरोहति अतिशयेन वृद्धिमुपैति, यद् एजति यत् चलति- पश्वादि, यत् न एजति यन्न चलति- पर्वतादि, यद्दूरे मेर्वादि, यद् उ अन्तिके उशब्दोऽव नियुक्तिः धारणे, अन्तिके समीपे यत्, तत्पुरुष एव इत्यर्थः, यद् अन्तर मध्ये अस्य चेतनाचेतनस्य सर्वस्य, यदेव सर्वस्यास्य बाह्यतः, देवघोषः, तत्सर्वं पुरुष एव इति, अतः तदतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धया, ते मतिः, तथा प्रत्यक्षानुमानागमगोचरातीतं च एतत्, अमूर्तस्य च आत्मनो मूर्तकर्मणा कथं संयोग? इति, कथं वा अमूर्तस्य सतः मूर्तकर्मकृतावुपघातानुग्रहौस्यातामिति, जीव-कर्मलोके तन्त्रान्तरेषु च कर्मसत्ता गीयते पुण्यः पुण्येन इत्यादौ, अतो न विद्मः- किमस्ति नास्ति वा?, ते अभिप्रायः, तत्र वेदपदानां च अर्थ न जानासि, चशब्दाधुक्तिं हृदयं च, तेषां वेदपदानामेकवाक्यतया व्यवस्थितानामयमर्थ:-एतानि हि निर्वाणपुरुषस्तुतिपराणि वर्तन्ते, तथा जात्यादिमदत्यागाय अद्वैतभावनाप्रतिपादकानि वा, न कर्मसत्ताप्रतिषेधकानि, अन्यार्थानि / संशया:, परिवारः, वा, सौम्य! इत्थं चैतदङ्गीकर्त्तव्यम्, यतः नाकर्मणः कर्तृत्वं युज्यते, प्रवृत्तिनिबन्धनाभावात्, एकान्तशुद्धत्वात्, गगनवत्, अमर्षः, वेदपदार्थः, इतश्च अकर्मा नारम्भते, एकत्वात्, एकपरमाणुवत्, न च अशरीरवानीशानः खल्वारम्भको युज्यते, तस्य स्वशरीरारम्भेऽपि उक्तदोषानतिवृत्तेः, न च अन्यस्तच्छरीरारम्भाय व्याप्रियते, शरीरित्वाशरीरित्वाभ्यां तस्यापि आरम्भकत्वानुपपत्तेः, न च शुद्धस्य देहकरणेच्छा युज्यते, तस्या रागविकल्पत्वात्, तस्मात् कर्मसद्वितीयः पुरुषः कर्ता इति / न च तत्कर्म प्रत्यक्षप्रमाणगोचरातीतम्, मत्प्रत्यक्षत्वात्, त्वत्संशयवत्, भवतोऽपि अनुमानगोचरत्वात्, तच्चेदमनुमानमं-शरीरान्तरपूर्वकं बालशरीरम्, तज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोक दीक्षा। // 426 //