________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 417 // जनस्तस्य, स चेत्थंसामर्थ्यो भवति- ततः सिक्थेनापि शिरसि प्रक्षिप्तेन रोगः खलूपशमं याति, अपूर्वश्च षण्मासान् यावन्न भवतीति, आह च-सर्वामयप्रशमनः, कुप्यति नान्यश्चषण्मासं यावत् / प्राकृतशैल्या स्त्रीलिङ्गनिर्देश इति गाथार्थः॥ 587 // द्वारम् / / अपरे त्वनन्तरोक्तद्वारद्वयमप्येकद्वारीकृत्य व्याचक्षते, तथापि अविरोध इति / इत्थं बलौ प्रक्षिप्ते भगवान् प्रथमात् प्राकारान्तरात् उत्तरद्वारेण निर्गत्य उत्तरपूर्वायां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठत इति / भगवत्युत्थिते द्वितीयपौरुष्यामाद्यगणधरोऽन्यतमो वा धर्ममाचष्टे / आह-भगवानेव किमिति नाचष्टे?, तत्कथने के गुणा इति?, उच्यते नि०-खेयविणोओसीसगुणदीवणा पच्चओ उभयओऽवि।सीसायरियकमोऽविय गणहरकहणे गुणा होंति // 588 // खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा शिष्यगुणदीपना शिष्यगुणप्रख्यापना च कृता भवति, तथा प्रत्यय उभयतोऽपि श्रोतृणामुपजायते- यथा भगवताऽभ्यधायि तथा गणधरेणापि, गणधरे वा तदनन्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोतृणां-नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपि चदर्शितो भवति, आचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्वाख्यानं कर्त्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थः॥ 588 // आह-स गणधरः क्व निषण्णः कथयतीति?, उच्यते नि०-राओवणीयसीहासणे निविट्ठोवपायवीदंमि / जिट्ठो अन्नयरो वागणहारी कहइ बीआए॥५८९॥ राज्ञा उपनीतं राजोपनीतं राजोपनीतंच तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टोवा भगवत्पादपीठे, सच ज्येष्ठः अन्यतरो वा गणं- साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थः // 589 // आह-स कथयन् कथं कथयतीति?, उच्यते 0.3 उपोदातनियुक्तिः, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। | नियुक्तिः |588-589 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादिविधिः, आधान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 417 //