________________ 0.3 उपोद्धातनियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 408 // सव्वं च देसविरतिं ति सर्वविरतिं च देशविरतिंच, विरतिशब्द उभयथापि सम्बध्यते, सम्यक्त्वं ग्रहीष्यति वा भवति कथना तु प्रवर्त्तते कथनमित्यर्थः, इहर त्ति अन्यथा न मूढलक्षोऽमूढलक्षः सर्वज्ञेयाविपरीतवेत्ता इत्यर्थः, किं?- न कथयति / आहसमवसरणकरणप्रयासो विबुधानामनर्थकः, कृतेऽपि नियमतोऽकथनात् इत्याह- भविष्यति न तच्च, यद् भगवति कथयत्यन्यतमोऽप्यन्यतमत्सामायिकंन प्रतिपद्यते इति, भविष्यत्कालस्त्रिकालोपलक्षणार्थ इति गाथार्थः॥५६४ ॥केवइय त्ति कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्याह__नि०- मणुए चउमण्णय तिरिए तिण्णि व दुवे पपडिवज्जे ।जइ नत्थि नियमसो च्चिय सुरेसु सम्मत्तपडिवत्ती॥५६५॥ __ अथवा- कथं भविष्यति न तच्चेत्याह- यतः- मणुए गाहा। व्याख्या- मनुष्ये प्रतिपत्तरि चतुर्णामन्यतमप्रतिपत्तिरिति, पाठान्तरं वा मणुओ चउ अण्णतरं ति मनुष्यश्चतुर्णामन्यतमत्प्रतिपद्यते, तिर्यञ्चः त्रीणि वा-सर्वविरतिवर्जानि, द्वेवा-सम्यक्त्वश्रुतसामायिके प्रतिपद्यन्ते इति / यदि नास्ति मनुष्यतिरश्चांकश्चित्प्रतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्वप्रतिपत्तिर्भवतीति गाथार्थः॥५६५।। स चेत्थं धर्ममाचष्टे नि०-तित्थपणामं काउं कहेइ साहारणेण सद्देणं / सव्वेसिंसण्णीणं जोयणणीहारिणा भगवं // 566 // नमस्तीर्थाये त्यभिधाय प्रणामं च कृत्वा कथयति, साधारणेन प्रतिपत्तिमङ्गीकृत्य शब्देन, केषां साधारणेनेत्याह- सर्वेषां अमरनरतिरश्चां सज्ञिनाम्, किंविशिष्टेन?- योजननिर्हारिणा योजनव्यापिना भगवानिति, एतदुक्तं भवति-भागवतो ध्वनिः अशेषसमवसरणस्थसज्ञिजिज्ञासितार्थप्रतिपत्तिनिबन्धनं भवति, भगवतः सातिशयत्वादिति गाथार्थः // 566 // आहकृतकृत्यो भगवान् किमिति तीर्थप्रणामं करोतीति?, उच्यते तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 565-566 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादि| विधिः, आधान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 408 //