SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 402 // नि०- मणिकणगरयणचित्ते चउद्दिसिंतोरणे विउव्वंति। सच्छत्तसालभंजियमयरद्धयचिंधसंठाणे॥५४७॥ मणिकनकरत्नचित्राणि चउद्दिसि त्ति चतसृष्वपि दिक्षु तोरणानि विकुर्वन्ति, किंविशिष्टान्यत आह- छत्रं- प्रतीत सालभजिकाः-स्तम्भपुत्तलिकाः मकर त्ति मकरमुखोपलक्षणं ध्वजाः प्रतीताः चिह्नानि-स्वस्तिकादीनि संस्थानंतद्रचनाविशेष एव, सच्छोभनानि छत्रसालभञ्जिकामकरध्वजचिह्नसंस्थानानि येषु तानि तथोच्यन्ते, एतानि व्यन्तरदेवाः कुर्वन्तीति गाथार्थः॥५४७॥ नि०-तिन्नि य पागारवरे रयणविचित्ते तहिँ सुरगणिंदा।मणिकंचणकविसीसगविभूसिए ते विउव्वेति // 548 // त्रींश्च प्राकारवरान् रत्नविचित्रान् तत्र सुरगणेन्द्रा मणिकाञ्चनकपिशीर्षकविभूषितांस्ते विकुर्वन्तीति, भावार्थः स्पष्टः, उत्तरगाथायां वा व्याख्यास्यति // 548 // सा चेयं नि०- अन्भंतर मज्झ बहिं विमाणजोइभवणाहिवकया उ। पागारा तिण्णि भवे रयणे कणगे य रयए य॥५४९॥ अभ्यन्तरे मध्ये च बहिर्विमानज्योतिर्भवनाधिपकृतास्तु आनुपूर्व्या प्राकारास्त्रयो भवन्ति, रयणे कणगे य रयए यत्ति रत्नेषु भवोरात्नः रत्नमय इत्यर्थः,तं विमानाधिपतयः कुर्वन्ति, कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, राजतो-रूप्यमयश्च तं भवनपतयः कुर्वन्ति इति गाथार्थः // 549 // नि०- मणिरयणहेमयाविय कविसीया सव्वरयणिया दारा / सव्वरयणामय च्चिय पडागधयतोरणविचित्ता / / 550 // मणिरत्नहेममयान्यपि च कपिशीर्षकाणि, तत्र पञ्चवर्णमणिमयानि प्रथमप्राकारे वैमानिकाः, नानारत्नमयानि द्वितीये ज्योतिष्काः , हेममयानि तृतीये भवनपतय इति,तथा सर्वरत्नमयानि द्वाराणि त एव कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलतः | 0.3 उपोद्घात| नियुक्तिः, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 547-550 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादिविधिः, आद्यान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 402 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy