SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 399 // नगरी, तत्र सोमिलार्यो नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरमशरीराः, ततश्च तान् विज्ञाय ज्ञानोत्पत्तिस्थाने मुहूर्त्तमानं देवपूजांजीतमितिकृत्वा अनुभूय देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेनाशेषं पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्धेषु चरणन्यासं कुर्वन् मध्यमानगर्यां महसेनवनोद्यानं संप्राप्त इति गाथार्थः॥५३९॥ नि०-अमरनररायमहिओ पत्तो धम्मवरचक्कवट्टित्तं / बीर्यपि समोसरणं पावाए मज्झिमाए उ॥५४०॥ स एव भगवान् अमराश्च नराश्च अमरनराः तेषां राजानः तैर्महितः- पूजितः प्राप्तः, किमित्याह- धर्मश्चासौ वरश्च धर्मवरः तस्य चक्रवर्त्तित्वम्, तत्प्रभुत्वमित्यर्थः / पुनर्द्वितीयं समवसरणम्, अपिशब्दः पुनःशब्दार्थे द्रष्टव्यः, पापायां मध्यमायाम्, प्राप्त इत्यनुवर्त्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता इति गाथार्थः // 540 // नि०- तत्थ किल सोमिलज्जोत्ति माहणो तस्स दिक्खकालंमि / पउरा जणजाणवया समागया जन्नवाडंमि॥५४१॥ तत्र पापायां मध्यमायाम्, किलशब्दः पूर्ववत्, सोमिलार्य इति ब्राह्मणः, तस्य दीक्षाकाले यागकाल इत्यर्थः, पौराः विशिष्टनगरवासिलोकसमुदायः जनाः सामान्यलोकाः जनपदेषु भवा जानपदाः, विषयलोका इत्यर्थः, समागता यज्ञपाट इति गाथार्थः।। 541 // अत्रान्तरे नि०- एगंते य विवित्ते उत्तरपासंमि जन्नवाडस्स / तो देवदाणविंदा करेंति महिमं जिणिंदस्स // 542 // एकान्ते च विविक्ते उत्तरपार्श्वे यज्ञपाटकस्य ततो देवदानवेन्द्राः कुर्वन्ति महिमां जिनेन्द्रस्य, पाठान्तरं वा कासी महिम जिणिंदस्स कृतवन्त इति गाथार्थः // 542 // अमुमेवार्थं किञ्चिद्विशेषयुक्तं भाष्यकारः प्रतिपादयन्नाह 0.3 उपोद्धात| नियुक्तिः, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 540-542 महसेने द्वितीयं समवसरणं, सोमिलयज्ञः, देवमहिमा। // 399 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy