________________ नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 398 // शतानि बहूनीति गाथार्थः॥५३५॥ नि०- पव्वजाए पढमंदिवसं एत्थं तु पक्खिवित्ताणं / संकलियंमि उसंतेजलद्धं तं निसामेह // 536 // प्रव्रज्यायाः सम्बन्धिभूतं दिवसंप्रथमम्, एत्थं तु अत्रैवोक्तलक्षणे दिवसगणेप्रक्षिप्य संकलिते तु सति यल्लब्धं तत् निशामयत शृणुतेति गाथार्थः॥५३६॥ नि०- बारस चेव य वासा मासा छच्चेव अद्धमासोय / वीरवरस्स भगवओ एसो छउमत्थपरियाओ॥५३७॥ द्वादश चैव वर्षाणि मासाः षडेवार्धमासश्च वीरवरस्य भगवतः एष छद्मस्थपर्याय इति गाथार्थः॥५३७॥ नि०- एवं तवोगुणरओ अणुपुव्वेणं मुणी विहरमाणो। घोरं परीसहचमुंअहियासित्ता महावीरो॥५३८॥ एवं उक्तेन प्रकारेण तपोगुणेषु रतः- तपोगुणरतः अनुपूर्वेण क्रमेण मन्यते जगतस्त्रिकालावस्थामिति मुनिः विहरन् घोरां रौद्रां परीषहचमूं परीषहसेनामधिसह्य महावीर इति गाथार्थः॥५३८।। 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 536-538 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 540-542 महसेने द्वितीयं समवसरणं, सोमिलयज्ञः, देवमहिमा। // 398 // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां वीरजिनादिवक्तव्यताविवरणं समाप्तम् // नि०- उप्पण्णंमि अणंते नटुंमि य छाउमथिए नाणे / राईए संपत्तो महसेणवणंमि उज्जाणे // 539 // उत्पन्ने प्रादुर्भूते कस्मिन्?- अनन्ते ज्ञेयानन्तत्वात् अशेषज्ञेयविषयत्वाच्च केवलमनन्तम्, नष्टे च छाद्यस्थिके ज्ञाने, रात्र्यां संप्राप्तो महसेनवनमुद्यानम्, किमिति?- भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाश्चतुर्विधा अप्यागता आसन्, तत्र च प्रव्रज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान्, ततो द्वादशसुयोजनेषु मध्यमा नाम