________________ नियुक्तिः, 1.3 उपोद्घात द्वितीयद्वारम् , श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 396 // यद्भगवता तप आसेवितं तदभिधित्सुराह। नि०-जोय तवो अणुचिण्णो वीरवरेणं महाणुभावेणं / छउमत्थकालियाए अहक्कम कित्तइस्सामि // 527 // यच्च तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रम- येन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः॥५२७॥ तच्चेदं नि०- नव किर चाउम्मासे छक्किर दोमासिए उवासीय। बारस य मासियाइंबावत्तरि अद्धमासाई // 528 // नव किल चातुर्मासिकानि तथा षट् किल द्विमासिकानि उपोषितवान्, किलशब्दः परोक्षाप्तागमवादसंसूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः॥५२८॥ नि०- एगं किर छम्मासं दो किर तेमासिए उवासीय / अड्डाइजाइ दुवे दो चेव दिवट्टमासाई॥५२९ // एकं किल षण्मासंद्वे किल त्रैमासिके उपोषितवान्, तथा अड्डाइजाइ दुवे त्ति अर्द्धतृतीयमासनिष्पन्नंतप:-क्षपणंवाऽर्धतृतीयम्, तेऽर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च दिवङ्घमासाई ति सार्धमासे तपसी क्षपणे वा, क्रियायोगोऽनुवर्तत एवेति गाथार्थ : // 529 // नि०- भदं च महाभई पडिमंतत्तोय सव्वओभई। दो चत्तारि दसेव य दिवसे ठासीय अणुबद्धं // 530 // __ भद्रां च महाभद्रां प्रतिमां ततश्च सर्वतोभद्रां स्थितवान्, अनुबद्धमिति योगः, आसामेवानुपूर्व्या दिवसप्रमाणमाहचतुरः दशैव च दिवसान् स्थितवान्, अनुबद्धं-सन्ततमेवेति गाथार्थः // 530 // नि०- गोयरमभिग्गहजुयं खमणं छम्मासियंच कासीय। पंचदिवसेहि ऊणं अव्वहिओवच्छनयरीए॥५३१॥ वीरजिनादि-' वक्तव्यताः। नियुक्तिः 527-531 सामुद्रिक: पुष्या,गोशाल: विजयानन्दसुनन्द पारणानि, कोल्लाके गोशालप्रव्रज्या ,. सुवर्णखले नियतिग्रह, नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादिः। // 396 //