________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० नन्दी, वृत्तियुतम् भाग-१ // 16 // तथाऽङ्गानङ्गादिभेदभिन्नंच श्रुतमिति, अथवाऽऽत्मप्रकाशकंमतिज्ञानम्, स्वपरप्रकाशकंच श्रुतमित्यलं प्रसङ्गेन, गमनिका- पीठिका मात्रमेवैतदिति। अत्राह- एषां ज्ञानानामित्थं क्रमोपन्यासे किं प्रयोजनं इति, उच्यते, परोक्षत्वादिसाधर्म्यान्मतिश्रुतसद्भावे ०.१ज्ञान पञ्चकरूपा चशेषज्ञानसंभवात् आदावेव मतिश्रुतोपन्यासः, मतिज्ञानस्य पूर्व किमिति चेत्, उच्यते, मतिपूर्वकत्वात् श्रुतस्येति, मतिपूर्वकत्वं चास्य श्रुतं मतिपूर्वं व्यनेकद्वादशभेदम् (श्रीतत्त्वार्थे अ०१ सू०२०) इति वचनात्, तत्र प्रायो मतिश्रुतपूर्वकत्वात्प्रत्यक्ष- नियुक्तिः१ प्रयोजनादित्वसाधर्म्याच्च ज्ञानत्रयोपन्यास इति, तत्रापिकालविपर्ययादिसाम्यान्मतिश्रुतोपन्यासानन्तरमेवावधेरुपन्यास इति, तदनन्तरं / चर्चा, छाद्मस्थिकादिसाधर्म्यान्मनःपर्यायज्ञानस्य, तदनन्तरं भावमुनिस्वाम्यादिसाधर्म्यात्सर्वोत्तमत्वाच्च केवलस्येति गाथार्थः मतिश्रुतयो विशेषः। // 1 // * साम्प्रतं यथोद्देशं निर्देशः' इति न्यायाद् ज्ञानपञ्चकादावुद्दिष्टस्य आभिनिबोधिकज्ञानस्य स्वरूपमभिधीयते- तच्चाभिनिबोधिकज्ञानं द्विधा, श्रुतनिश्रितमश्रुतनिश्रितंच, यत्पूर्वमेव कृतश्रुतोपकारंइदानीं पुनस्तदनपेक्षमेवानुप्रवर्त्तते तद् अवग्रहादिलक्षणं श्रुतनिश्रितमिति / यत्पुनः पूर्वं तदपरिकर्मितमतेः क्षयोपशमपटीयस्वात् औत्पत्तिक्यादिलक्षणं उपजायते तदश्रुतनिश्रितमिति।आह-तिवग्गसुत्तत्थगहियपेयालाइति वचनात् तत्रापि किञ्चित् श्रुतोपकारादेव जायते, तत्कथमश्रुतनिश्रितमिति, उच्यते, अवग्रहादीनां श्रुतनिश्रिताभिधानाद् औत्पत्तिक्यादिचतुष्टयेऽपिच अवग्रहादिसद्भावात् यथायोगमश्रुतनिश्रितत्व Oन शेषज्ञानानामित्यर्थः / ॐ मत्यादीनामपि तेन स्वरूपनिरूपणात्। 0 संक्षेपविवरणरूपत्वात्। 0 भावश्रुतस्य / 7 मिथ्यादृष्टेस्त्रिज्ञानावाप्तौ न प्राङ् मतिश्रुते स्त इति प्राय इति। 0 ज्ञानत्रयोपन्यासे / लाभादिग्रहः। 0 पुद्गलावलम्बनत्वादिः। 0 विपर्ययाभावत्वादिः। ॐ श्रुतकृतो०।®औत्पत्तिक्यादिविषयकवस्तुसम्बन्धिपरिकर्म न श्रुतकृतमिति।® परिकर्म विना / // 16 //