SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 15 // परि अव: पर्यवः पर्यवनं वा पर्यव इति, मनसि मनसोवा पर्यवो मनःपर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनः- पीठिका पर्यवज्ञानम्, अथवा मनसः पर्याया मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरम्, तेषु ज्ञानं ०.१ज्ञान पञ्चकरूपा मनःपर्यायज्ञानम्, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम्, इदं चार्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्बनमेवेति, नन्दी, तथाशब्दोऽवधिज्ञानसारूप्यूप्रदर्शनार्थः, कथं?, छद्मस्थस्वामिसाधर्म्यात्, तथा पुद्गलमात्रालम्बनत्वसाम्यात्, तथा क्षायोप- | नियुक्तिः१ शमिकभावसाम्यात्, तथा प्रत्यक्षत्वसाम्याचेति / केवलमसहाय मत्यादिज्ञाननिरपेक्षम्, शुद्धं वा केवलम्, तदावरणकर्ममल प्रयोजनादि चर्चा, कलङ्काङ्करहितम्, सकलं वा केवलम्, तत्प्रथमतयैव अशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा केवलम्, मतिश्रुतयोअनन्यसदृशमिति हृदयम्, ज्ञेयानन्तत्वादअनन्तंवा केवलम् , यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना, विशेषः। केवलंच तज्ज्ञानंचेति समासः, चशब्दस्तूक्तसमुच्चयार्थः, केवलज्ञानंच पञ्चमकमिति, अथवाऽनन्तराभिहितज्ञानसारूप्यप्रदर्शक एव, अप्रमत्तभावयतिस्वामिसाधर्म्यात् विपर्ययाभावयुक्तत्वाच्चेति गाथासमासार्थः।। आह-मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति, उच्यते, उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानम्, श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति, भेदकृतो वा विशेषः, यस्मादवग्रहाद्यष्टाविंशतिभेदभिन्नं मतिज्ञानम्, (c) विषयसप्तमी / 7 सम्बन्धे षष्ठी / 0 विना दर्शनं ज्ञानेनानेन विशेषोपयोग इति, विशुद्धतराणि वा मनोद्रव्याणि जानात्यनेनेति ज्ञापनाय वा। 3 अरूपिद्रव्यालम्बनव्यवछेदाय मात्रेति / 9 "जीवो अक्खो अत्थवावणभोयणगुणण्णिओ जेणं। तं पइ वट्टइ नाणं, जं पञ्चक्खं तयं तिविहं" (वि 089) इति। 08 अपेक्षाऽत्र सहावस्थानरूपा / 0 मत्यादीनां स्वावरणोपेतत्वात्, अङ्को लक्ष्म / (c) उत्पत्तिसमय एव / ॐ न तारतम्यवत् न्यूनं वा कदापि / ®अन्यस्य कस्यापि 8 रूप्यरूपिसूक्ष्मदूरेतरादिपदार्थाग्राहकत्वात् / ®आधारापेक्षयाऽसंख्येयत्वेऽपि / (r) अत्रोच्यते। // 15 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy