SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 332 // वंतरो चिंतेइ- देवकुलिएण गामेण य भण्णंतोऽवि न जाति, पेच्छ जं से करेमि, ताहे संझाए चेव भीमं अट्टहासं मुअंतो बीहावेति / / अभिहितार्थोपसंहारायेदंगाथाद्वयमाह नि०- दूइज्ज़तगा पिउणो वयंस तिव्वा अभिग्गहा पंच / अचियत्तुग्गहि न वसण१ णिचं वोसट्ठर मोणेणं 3 // 462 // नि०- पाणीपत्तं 4 गिहिवंदणंच 5 तओ वद्धमाणवेगवई। घणदेव सूलपाणिंदसम्म वासऽट्ठिअग्गामे // 463 // विहरतो मोराकसन्निवेशं प्राप्तस्य भगवतः तन्निवासी दूइज्जन्तकाभिधानपाषण्डस्थो दूतिज्जंतक एवोच्यते, पितुः सिद्धार्थस्य वयस्यः स्निग्धकः, सोऽभिवाद्य भगवन्तं वसतिं दत्तवान् इति वाक्यशेषः। विहृत्य च अन्यत्र वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण, किं?, तिव्वा अभिग्गहा पंच त्ति तीव्राः रौद्राः अभिग्रहाः पञ्च गृहीता इति वाक्यशेषः / ते चामी अचियत्तुग्गहि न वसणं ति अचियत्तं देशीवचनं अप्रीत्यभिधायकम्, ततश्च तत्स्वामिनोन प्रीतिर्यस्मिन्नवग्रहे सोऽप्रीत्यवग्रहः तस्मिन् न वसनं न तत्र मया वसितव्यमित्यर्थः, णिच्चं वोसट्ठ मोणेणंति नित्यं सदा व्युत्सृष्टकायेन सता मौनेन विहर्त्तव्यं पाणिपत्तं ति पाणिपात्रभोजिना भवितव्यम्, गिहिवंदणं चेत्ति गृहस्थस्य वन्दनम्, चशब्दादभ्युत्थानंच न कर्त्तव्यमिति / एतान् अभिग्रहान् गृहीत्वा तथा तस्मान्निर्गत्य वासऽट्ठिअग्गामेत्ति वर्षाकालं अस्थिग्रामे स्थित इति अध्याहारः, स चास्थिग्रामः पूर्वंवर्धमानाभिधः खल्वासीत्, पश्चात् अस्थिग्रामसंज्ञामित्थं प्राप्तः, तत्र हि वेगवतीनदी, तां धनदेवाभिधानः सार्थवाहः तं प्रधानेन गवाऽनेकशकटसहितः समुत्तीर्णः, तस्य च गोरनेकशकटसमुत्तारणतो हृदयच्छेदो बभूव, सार्थवाहः तं तत्रैव परित्यज्य गतः, स वर्धमाननिवासिलोकाप्रतिजागरितो मृत्वा तत्रैव शूलपाणिनामा यक्षोऽभवत्, दृष्टभयलोककारितायतने स प्रतिष्ठितः, - व्यन्तर श्चिन्तयति- देवकुलिकेन ग्रामेण च भण्यमानोऽपि न याति, पश्य यत्तस्य करोमि, तदा सन्ध्यायामेव भीममाट्टहासं मुञ्चन् भापयति / | 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। | नियुक्तिः 462-463 | इन्द्रागमः, पारणं, | अभिग्रहा: शूलपाणि प्रसंगः। // 332 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy