________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 326 // त्रिभिमा॑नः मतिश्रुतावधिभिः संपूर्णाः तीर्थकरणशीलास्तीर्थकरा भवन्तीति योगः। किंसर्वमेव कालं?,नेत्याह-यावद्गृह 0.3 उपोद्घातवासे भवन्तीति वाक्यशेषः। प्रतिपन्ने चारित्रे चतुर्जानिनो, भवन्तीत्यनुवर्तते। कियन्तं कालमित्याह- यावत् छद्मस्थाः नियुक्तिः, 0.3.2 तावदपि चतुर्जानिन इति गाथार्थः // एवमसौ भगवान् प्रतिपन्नचारित्रः समासादितमनःपर्यवज्ञानो ज्ञातखण्डादापृच्छ्य द्वितीयद्वारम्, वीरजिनादिस्वजनान् कर्मारग्राममगमत् / आह च भाष्यकार: वक्तव्यताः। भा०- बहिआ यणायसंडे आपुच्छित्ताण नायए सव्वे / दिवसे मुहत्तसेसे कुमारगामसमणुपत्तो॥१११॥ भाष्यः 111 विहारः। बहिर्धा च कुण्डपुरात् ज्ञातखण्ड उद्याने, आपृच्छ्य ज्ञातकान् स्वजनान् सर्वान् यथासन्निहितान्, तस्मात् निर्गतः, कर्मारग्रामगमनायेति वाक्यशेषः / तत्र च पथद्वयं-एको जलेन अपरः स्थल्याम्, तत्र भगवान् स्थल्यांगतवान्, गच्छंश्च दिवसे मुहूर्त्तशेषे / कर्मारग्राममनुप्राप्त इति गाथार्थः। तत्र प्रतिमया स्थित इति / अत्रान्तरे- तत्थेगो गोवो, सो दिवसं बइल्ले वाहित्ता गामसमीवं पत्तो, ताहे चिंतेइ- एए गामसमीवे चरंतु, अहंपि ता गावीओ दुहामि, सोऽवि ताव अन्तो परिकम्मं करेइ, तेऽवि बइल्ला अडविंचरन्ता पविट्ठा, सो गोवो निग्गओ, ताहे सामिपुच्छइ-कहिं बइल्ला?, ताहे सामी तुण्हिक्को अच्छइ, सो चिंतेइ- एस नयाणइ, तो मग्गिउंपवत्तो सवरत्तिंपि, तेऽवि बइल्ला सुचिरं भमित्तागामसमीवमागया माणुसंदट्ठण रोमंथंता अच्छंति, ताहे ®पादाभ्याम् प्र०10 तत्रैको गोपः स दिवसं बलीवौ वाहयित्वा ग्रामसमीपं प्राप्तः, तदा चिन्तयति - एतौ ग्रामसमीपे चरताम्, अहमपि तावद् गा दोझि, सोऽपि 8 तावदन्तः परिकर्म करोति, तावपि बलीवदौं चरन्तावटवीं प्रविष्टी, स गोपो निर्गतः, तदा स्वामिनं पृच्छति- क्व बलीवदौ!, तदा स्वामी तूष्णीकस्तिष्ठति, स चिन्तयतिएष न जानाति, ततः मार्गयितुं प्रवृत्तः सर्वरात्रिमपि, तावपि बलीवदी सुचिरं भ्रान्त्वा ग्रामसमीपमागतौ मानुषं दृष्ट्वा रोमन्थायमानौ तिष्ठतः, तदा // 326 //