SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 12 // भावमङ्गलमेवैकं युक्तम्, स्वकार्यप्रसाधकत्वात्, न नामादयः, तत्कार्याप्रसाधकत्वात्, पापवद् इति चेत्, न, नामादीनामपि भावविशेषत्वात्, यस्मादविशिष्टमिन्द्रादि वस्तु उच्चरितमात्रमेव नामादिभेदचतुष्टयं प्रतिपद्यते, भेदाश्च पर्याया एवेति, अथवा नामस्थापनाद्रव्याणि भावमङ्गलस्यैवाङ्गानि, तत्परिणामकारणत्वात्, तथा च मङ्गलाद्यभिधानं सिद्धाद्यभिधानं चोपश्रुत्य / अर्हत्प्रतिमास्थापनांच दृष्ट्वा भूतयतिभावं भव्ययतिशरीरं चोपलभ्य प्रायः सम्यग्दर्शनादिभावमङ्गलपरिणामोजायते, इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुम:- तत्र नोआगमतोऽर्हन्नमस्कारादि भावमङ्गलमुक्तम्, अथवा नोआगमतो भावमङ्गलं नन्दी, तत्र नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिन इति नन्दी, असावपि च मङ्गलवन्नामादिचतुर्भेदभिन्ना अवगन्तव्येति, तत्र नामस्थापने पूर्ववत्, द्रव्यनन्दी द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्ता च द्रव्यनन्दी द्वादशप्रकारस्तूर्यसंघातः भंभा मुकुंद मद्दल कडंब झल्लरि हुडुक्क कंसाला। काहलि तलिमा / वंसो, संखो पणवो य बारसमो॥१॥ तथा भावनन्द्यपि द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतः पञ्चप्रकारं ज्ञानम्, तच्चेदं 0 अर्थक्रियाकारि वस्त्वित्यभिप्रेत्याह / 0 निर्विघ्नशास्त्रार्थपारगमनादि। (r) नाममङ्गलादीनाम् / 0 धर्मरूपत्वात् / ॐ अव्युत्पादितम् / जानीते 100 निक्षेपचतुष्कस्य भिन्नभिन्नाधिकरणतामाश्रित्याह / अवयवाः। भावमङ्गलनिदानत्वात् / Oआदिना ज्ञाननिर्जरादिग्रहः।®विशेषनाम्नां कारणतायै, आदिना जिनेन्द्रादिः।® सम्यग्दर्शनादेः प्रबलकारणत्वात्, शय्यम्भवादिवत्।®इमेणं सरीरसमुस्सएणं जिणदिठेणं भावेणं आवस्सएत्ति पयं सेअकाले सिक्खिस्सइ न ताव सिक्खति' इति अनुयोगद्वारवचनात् / ज्ञात्वा दृष्टा वा। 9 क्लिष्टस्याभावात् / (r) ज्ञानचारित्रोपयोगग्रहः।®कयपंचनमुक्कारस्स दिन्ति सामाइयाइयं विहिणा' इतिवचनात्सूत्रापेक्षम् / (r) अनुयोगापेक्षम्, नन्द्यनुयोगस्यैकदेशत्वाद् / (r) कर्तृतामापन्नाः ।®दव्वे तूरसमुदओ' इति वचनात्, क्रियाविशिष्ट इत्यध्याहार्यमन्यथा नामनन्दीत्वापत्तेः। (r) तिलिमा 1-4 / (r) तदुपयुक्तः 1-3-4 / 8 // 12 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy