SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ पीठिक मङ्गलमा श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 11 // एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नादिना व्यभिचारात्, इत्यलं प्रसङ्गेन, प्रकृतमुच्यते- नोआगमतो भावमङ्गलं आगमवर्ज ज्ञानचतुष्टयमिति, सर्वनिषेधवचनत्वानोशब्दस्य, अथवा सम्यग्दर्शनज्ञानचारित्रोपयोगपरिणामो यः स नागम एव केवलः न चानागमः, इत्यतोऽपि मिश्रवचनत्वानोशब्दस्य नोआगमत इत्याख्यायते, अथवा अर्हन्नमस्काराधुपयोगः खल्वागमैकदेशत्वात् नोआगमतो भावमङ्गलमिति // ननुनामस्थापनाद्रव्येषु मङ्गलाभिधानं विवक्षितभावशून्यत्वा चसमानं वर्तते, ततश्चक एषां विशेष इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारोलक्ष्यते,तथाकर्तुश्चसद्भूतेन्द्राभिप्रायो भवति, तथा द्रष्टश्च तदाकारदर्शनादिन्द्रप्रत्ययः, तथा प्रणतिकृतधियश्चफलार्थिनः स्तोतुं प्रवर्त्तन्ते, फलंचप्राप्नुवन्ति केचिद्देवतानुग्रहात्, न तथा नामद्रव्येन्द्रयोरिति, तस्मात्स्थापनायास्तावदित्थं भेद इति / यथा च द्रव्येन्द्रो भावेन्द्रस्य कारणतां प्रतिपद्यते, तथोपयोगापेक्षायामपि तदुपयोगतामासादयिष्यति अवाप्तवांश्च, न तथा नामस्थापनेन्द्रावित्ययं विशेषः।। Oचन्द्रकान्तमणिव्यवहितादेहः, भस्मच्छन्नादिवदुपयोगरूपोऽपि न दाहकादिगुण इति तत्त्वम् / 7 नोशब्दस्य पर्युदासप्रतिषेधार्थत्वादागमवयं ज्ञानचतुष्टयमिति। 20 नोशब्दस्य सर्वदेशनिषेधैकदेशवाचकत्वात्, क्रमेण नोआगमतो मङ्गलपदार्थत्रयं ज्ञानचतुष्टयादिरूपम् / ॐ द्रव्येषु दधिदूर्वादिषु अग्न्यादिषु च मङ्गलाभिधानम्। 08 अभिहाणं दव्वत्तं तयत्थसुन्नत्तणं च तुल्लाइं इतिविशेषावश्यके पृथक् प्रोक्तम्, अत्र तु तदर्थशून्यत्वं द्रव्यत्वे हेतुतयोक्तम्, 'यद्वस्तुनोऽभिधान' मिति यत्तु तदर्थवियुक्त' मिति वचनान्नामस्थापनयोरपि द्रव्यत्वम्, कारणता सर्वत्रेति वा द्रव्यता, पूर्व निक्षेपचतुष्कस्य प्रक्रान्तत्वान्नामद्रव्यभेदविषयाशङ्का, विवक्षितेत्यादेस्तु द्रव्यत्वे हेतुता।08 भावे संभवान्नाम्न आह- द्रव्यत्वमिति, विवक्षितभावशून्यत्वं हि तत्, न च तद्भाव इति / स्पष्टं लक्ष्यमानत्वादादौ स्थापनाभेदनिरूपणम्। सद्भावस्थापनापेक्षया 80 अवितथेति / 0 बुद्धिः।® सहस्राक्षवज्रधरत्वादि / (r) प्रतीतिः। (r) आराधनातत्परतादर्शनाय / (r) सुतधनादि फलम् ।®तत्पाक्षिकेति / (r)3 स्थूलबुद्धेर्लोकस्य तत्र तथाध्यवसायाद्यभावात् / ®नोआगमतो भावेन्द्रस्य। ®लब्धिज्ञानवताम् / ॐ भव्यशरीरद्रव्यम् / ®ज्ञशरीरद्रव्यम् / // 11 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy