SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ मङ्गला श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 10 // क्रियापरिणामम्, तच्च उभयातिरिक्तं द्रव्यमङ्गलम्, ज्ञशरीरद्रव्यमङ्गलवत्, तथा यद् भाविसंयमादिक्रियापरिणामयोग्य तदपि उभयव्यतिरिक्तम्, भव्यशरीरद्रव्यमङ्गलवत्, तथा यदपि स्वभावतः शुभवर्णगन्धादिगुणं सुवर्णमाल्यादि, तदपि हि भावमङ्गलपरिणामकारणत्वाद् द्रव्यमङ्गलम्, अत्रापि नोशब्दः सर्वनिषेध एव द्रष्टव्यः, इत्युक्तं द्रव्यमङ्गलम् / भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः। सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् // 4 // अस्यायमर्थः- भवनं भावः, स हि वक्तुमिष्टक्रियानुभवलक्षणः सर्वज्ञैः समाख्यातः, इन्दनादिक्रियानुभवनयुक्तेन्द्रादिवदिति / तत्र भावतो मङ्गलं भावमङ्गलम्, अथवा भावश्चासौ मङ्गलं चेति समासः, तच्च द्विधा-आगमतो नोआगमतश्च, तत्रागमतोमङ्गलपरिज्ञानोपयुक्तोभावमङ्गलम्, कथमिह भावमङ्गलोपयोगमात्रात् तन्मयताऽवगम्यत इति, नह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थ-8 क्रियाप्रसाधकत्वाभावाद् इति चेत्, न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानं अवगमो भाव इत्यनर्थान्तरम्, तत्र अर्थाभिधान-1 प्रत्ययाः तुल्यनामधेयाः इति सर्वप्रवादिनामविसंवादस्थानम्, अग्निरिति च यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञाने सत्यपिनोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, नचानाकारतज्ज्ञानम्, पदार्थान्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च, ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वाद्, आकाशवत्, न चानलः सर्व Oआदिना तपोनियमादि। 0 शरीरमात्मद्रव्यं वा। 0 ज्ञभव्यशरीरेति उभयम्। 0 निमित्तकारणस्यापि द्रव्यत्वार्थम्। 0 वदित्यन्तः।0 मङ्गलाधिकारे भावाधिकारे भावलक्षणसिद्धौ वा। 0 ज्ञानोपयुक्तो। अर्थाभिधानप्रत्ययेतिन्यायादग्निज्ञानस्याग्निरूपत्वम्, तदव्यतिरिक्तस्य ज्ञातुरपि, तथा सति अग्निलक्षणत्वमिति: ज्ञायते। ज्ञानात्मनोर्व्यतिरिक्तत्वे। ज्ञानात्मनो दात्।®प्रदीपवज्ज्ञानम्, अन्धवज्ञानातिरिक्तः पुरुषः, प्रदीपहस्तत्वं च निकटत्वाय। ®समवायापेक्षया दृष्टान्तान्तरं अन्तरापेक्षया वा। विषयवैशिष्ट्यशून्यम्, तथाच ज्ञेयस्य भिन्नत्वं ज्ञानात् / प्रसङ्गोऽनिष्टापत्तिः। 9चकारो नोपलभेतेत्यनेन सह समुच्चयार्थः, ज्ञानात्मनो दे दूषणान्तरमेतदिति। (r) स्यादित्यध्याहार्यम्। 388888888888888888888888888888888808080808888888888888888888888888888888888
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy