________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 9 // ज्ञशरीरादि तथाभूतमन्यद्वा 'कथितं' आख्यातं प्रतिपादितमित्यर्थः। तत्र द्रव्यं च तन्मङ्गलं चेति समासः, तच्च द्रव्यमङ्गलं द्विधा- आगमतो नोआगमतश्च, तत्र आगमतः खल्वागममधिकृत्य आगमापेक्षमित्यर्थः, नोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमतो मङ्गलॅशब्दाध्येताअनुपयुक्तो द्रव्यमङ्गलं अनुपयोगो द्रव्य मितिवचनात्, तथा नोआगमतस्त्रिविधं द्रव्यमङ्गलम्, तद्यथा- ज्ञशरीरद्रव्यमङ्गलं 1 भव्यशरीरद्रव्यमङ्गलं 2 ज्ञशरीरभव्यशरीरव्यतिरिक्तं 3 द्रव्यमङ्गलमिति / तत्र ज्ञस्य शरीरं ज्ञशरीरम्, शीर्यत इति शरीरं ज्ञशरीरमेव द्रव्यमङ्गलं ज्ञशरीरद्रव्यमङ्गलम्, अथवा ज्ञशरीरं च तद्रव्यमङ्गलं चेति समासः। एतदुक्तं भवति- मङ्गलपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्भावानुवृत्त्या सिद्धशिलादितलगतमपि घृतघटादिन्यायेन नोआगमतो ज्ञशरीरद्रव्यमङ्गलमिति, मङ्गलज्ञानशून्यत्वाच्च तस्य, इह सर्वनिषेध एव नोशब्दः। तथा भव्यो योग्यः, मङ्गलपदार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति, तस्य शरीरं भव्यशरीरम्, भव्यशरीरमेव द्रव्यमङ्गलम्, अथवा भव्यशरीरं च तद्व्यमङ्गलं चेति समास इति / अयं भावार्थ:- भाविनी वृत्तिमङ्गीकृत्य मङ्गलोपयोगांधार मधुघटादिन्यायेनैव तत् बालादिशरीरं भव्यशरीरद्रव्यमङ्गलमिति, नोशब्दः पूर्ववत् ।ज्ञशरीरभव्यशरीरव्यतिरिक्तंच द्रव्यमङ्गलं संयमतपोनियमक्रियानुष्ठाताअनुपयुक्तः, आगमतोऽनुपयुक्तद्रव्यमङ्गलवत्, तथा यच्छरीरमात्मद्रव्यं वा अतीतसंयमादि Oआदिना भव्यशरीरग्रहः। ॐ ज्ञभव्यशरीरव्यतिरिक्तमप्रधानं कारणादि च / 0 युक्तिदर्शनपुरस्सरं दर्शितं द्रव्यस्वस्वरूपमेतदिति / 0 पेक्षयेत्यर्थः 1-4 / पठिता। 0 ज्ञाता 210 मङ्गलभावेति। यत्र विधायानशनं जग्मुः शोभनां गतिं वाचंयमाः सेति, (अनु०) आदिना तीर्थकरनिर्वाणभूम्यादि। आदिना मधुकुम्भादि। ®नोआगमतोपपादनाय। ®भावमङ्गलकारणताज्ञापनाय। (r) आदिना युवादि / (r) सर्वनिषेध एव। (r) नानुपयुक्तः 1-2-3-4 / ®चाती० 13(r) उभयसमुच्चयायापि।