________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 8 // डित्थादिवत्, चशब्दात्यावद्व्यभाविच प्रायस इति / यत्तु सूत्रोपदिष्टं णामं आवकहियंतत् प्रतिनियत-जनपदसंज्ञामाश्रित्येति, नाम च तन्मङ्गलं चेति समासः, तत्र यत् जीवस्याजीवस्योभयस्य वा मङ्गलमिति नाम क्रियते तन्नाममङ्गलम्, जीवस्य यथा-सिन्धुविषयेऽग्निर्मङ्गलमभिधीयते, अजीवस्य यथा-श्रीमल्लाटदेशे दवरकवलनकं मङ्गलमभिधीयते, उभयस्य यथावन्दनमालेति / यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि / लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च // 2 // अस्यायमर्थः'यद्' वस्तु तदर्थवियुक्तं'भावेन्द्राद्यर्थरहितम्, तस्मिन्नभिप्रायस्तदभिप्रायः, अभिप्रायोबुद्धिः,तद्वद्ध्येत्यर्थः,करणिराकृतिः, यच्चेन्द्राद्याकृति लेप्यादिकर्म क्रियते'चशब्दात्तदाकृतिशून्यंचाक्षनिक्षेपादितत्स्थापनेति' तच्चत्वरमल्पकालमिति पर्यायौ, चशब्दाद्यावव्यभावि च,स्थाप्यत इति स्थापना,स्थापना चासौ मङ्गलंचेति समासः, तत्र स्वस्तिकादि स्थापनामङ्गलमिति / भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके / तद्दव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् // 3 // अस्यायं भावार्थ:'भूतस्य' अतीतस्य भाविनो वा' एष्यतो भावस्य' पर्यायस्य 'कारणं' निमित्तं यद् एवं लोके' 'तद् द्रव्यं' इति द्रवति गच्छति ताँस्तान्पर्यायान् क्षरति चेति द्रव्यं तत्त्वज्ञैः सर्व स्तीर्थकृद्भिरितियावत् सचेतनं अनुपयुक्तपुरुषाख्यम्, अचेतनं ®अभिधानान्तरेऽपि प्रागभिधानवाच्यत्वात् / ॐ परावृत्तिभावात् / 0 आकृत्यन्तरे पूर्वाकारोच्छेदात्। नन्दीश्वरद्वीपादिस्थप्रतिमादि।स्थाप्यमानापेक्षया, अन्यत्र तु तिष्ठतीति स्थापना / Oआदिना नन्दावर्तादि / 0 आगमनोआगमाभ्यां विचारयिष्यमाणत्वाद्भावार्थ इति / (c) वाशब्दस्य निपातानामनेकार्थत्वेन 8 समुच्चयार्थत्वाद्भूतभविष्यतोश्चेति ज्ञेयं (चकाराद्भूतभविष्यत्पर्यायमिति विशेषावश्यके)10 विवक्षितस्य भावतया। ®आगमकारणमाया देहो सद्दो य तो दव्वं ति 30 विशेषावश्यकवचनादुपादानादीनि विविधानि कारणानि। (r) इष्टावधारणार्थत्वाद्योग्यत्वसद्भाव इति ज्ञापयति। (r) पर्यायस्य क्रमभावित्वात्पूर्वपर्यायान् क्षरति, भूतापेक्षया क्षरति, भविष्यदपेक्षया गच्छतीत्यपि। (r) द्वादशाङ्गार्थप्ररूपणाकारित्वात्तेषाम् / (r) उपलक्षणादनुपयुक्तानुष्ठानादि व्यतिरिक्तमङ्गलत्वात्तस्य। (r) // 8 //