SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ , अगिरगिलगिवगिमगि इतिदण्डकधीत 18) इति नुमि विहिते औणादिकाल मम कः (पा० 3-2-2 // 7 // मैकवचनान्तस्यव च नामादि चतुर्वि मिति। __ आह- मङ्गलमिति कः शब्दार्थ:?, उच्यते, अगिरगिलगिवगिमगि इतिदण्डकधातुः, अस्य इदितो नुम्धातोः (पा.७-१५८) इति नुमि विहिते औणादिकालच्प्रत्ययान्तस्यानुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति, मङ्गयते हितमनेनेति मङ्गलम्,मङ्गयते अधिगम्यते साध्यत इतियावत्, अथवा मङ्गेतिधर्माभिधानम्, ‘ला आदाने' अस्य धातोर्मङ्ग उपपदे आतोऽनुपसर्गे कः (पा० 3-2-3) इति कप्रत्ययान्तस्य अनुबन्धलोपे कृते आतो लोप इटि च द्धिति (पा० 6-4-64 आतो लोप इटिच) इत्यनेन सूत्रेणाकारलोपेच प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गलातीति मङ्गलंधर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः। तच्च नामादि चतुर्विधम्, तद्यथा- नाममङ्गलं१ स्थापनामङ्गलं 2 द्रव्यमङ्गलं 3 भावमङ्गलं 4 चेति / तत्र यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् / पर्यायानभिधेयं (च) नाम यादृच्छिकंच तथा॥१॥ अस्यायमर्थः-'यद्"वस्तुनो' जीवाजीवादेः 'नाम' यथा गोपालदारकस्येन्द्र इति, स्थितमन्यार्थे' इति परमार्थतः त्रिदशाधिपेऽवस्थानात्, 'तदर्थनिरपेक्ष' इति इन्द्रार्थनिरपेक्षम्, कथं? तत्र गुणतो वर्त्तत इति, इन्दनादिन्द्रः 'इदिपरमैश्वर्ये' इति तस्य परमैश्वर्ययुक्तत्वात्, गोपालदारकेतु तदर्थशून्यमिति, तथा पर्यायैः- शक्रपुरन्दरादिभिः नाभिधीयत इति, इह नामनामवतोरभेदोपचाराद्गोपालवस्त्वेव गृह्यते, एवंभूतं नामेति, तथाऽन्यत्रावर्त्तमानमपि किञ्चिद् यादृच्छिकं 0 सदृशधातूनामेकार्थे पाठात् / 0 प्राप्त्यर्थत्वात् गत्यर्थानाम् / निदर्शनमात्रत्वाद्धातूनाम्। 0 पर्यायस्य पर्यायकथने प्रयोग एतस्य। ॐ तत्त्वभेदपर्यायैर्व्याख्येतिनियमात् प्राक्तत्त्वं मङ्गलस्य हितप्राप्त्याद्यभिधाय भेददर्शनाय / चतुर्विधे मङ्गले / 0 आर्यावृत्तस्य नामलक्षणप्रतिपादकग्रन्थस्येति वा। आदिना तदुभयस्य / 0 गुणतः / ॐ त्रिदशाधिपे। (r) इन्द्रस्य। (r) इन्द्रार्थेति /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy