SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 6 // साधुर्मङ्गलभूतोऽपि सन्मङ्गलबुद्ध्यैव गृह्यमाणः प्रशस्तचेतोवृत्तेर्भव्यस्य तत्कार्यप्रसाधको भवति, यदा तु न तथा गृह्यते तदा कालुष्योपहतचेतसःसत्त्वस्य न भवतीति, एवं शास्त्रमपीतिभावार्थः / आह- यद्येवममङ्गलमपि मङ्गलबुद्धेः प्राणिनो मङ्गलकार्यकृत्प्राप्नोतीति, अनिष्टं चैतदिति, न, तस्य स्वरूपेणैवामङ्गलत्वात्, मङ्गलस्य च स्वबुद्धिसापेक्षस्य स्वकार्याभिनिवर्त्तकत्वादिति, तथाहि- यदि कश्चित्काञ्चनमेव काञ्चनतयाऽभिगृह्य प्रवर्त्तते ततस्तत्फलमासादयति, न पुनरकाञ्चनं सत्काञ्चनबुद्ध्या, नाप्यतद्बुद्ध्येति। मङ्गलत्रयापान्तरालद्वयमित्थममङ्गलमापद्यत इति चेत्, न, अशेषशास्त्रस्यैव तत्त्वतो मङ्गलत्वात्, तस्यैव च संपूर्णस्यैव त्रिधा विभक्तत्वात् मोदकवदपान्तरालद्वयाभाव इति, यथा हि मोदकस्य त्रिधाविभक्तस्य अपान्तरालद्वयं नास्ति, एवं प्रकृतशास्त्रस्यापीति भावार्थः / मङ्गलत्वं चाशेषशास्त्रस्य निर्जरार्थत्वात्, प्रयोगश्च-विवक्षितं शास्त्रं मङ्गलम्, निर्जरार्थत्वात्, तपोवत् / कथं पुनरस्य निर्जरार्थतेति चेत्, ज्ञानरूपत्वात्, ज्ञानस्य च कर्मनिर्जरणहेतुत्वात्, उक्तं च-जं नेरइओ कम्मं, खवेइ बहुयाहि वासकोडीहिं। तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेणं॥१॥ स्यादेतत्, एवमपि मङ्गलत्रयपरिकल्पनावैयर्थ्यमिति, न, विहितोत्तरत्वात्, तस्मात्स्थितमेतत्-शास्त्रस्य आदौ मध्येऽवसाने च मङ्गलमुपादेय 0'नोआगमओ भावो सुविसुद्धो खाइयाइओ' त्ति (वि० 49 गाथा) वचनात्क्षायिकादिभाववतो यतेर्मङ्गलता। लोकोत्तरतत्त्वप्राप्तिमत्ताज्ञापनाय / आसनसिद्धिताज्ञापनाय / 0 प्रधानमङ्गलतासंपादनेति / मङ्गलबुद्ध्या / 0 मङ्गलकार्यकृत् / 0 मङ्गलबुद्ध्या गृह्यमाणं मङ्गलभूतमपि मङ्गलकार्यकृत्। मङ्गल-8 बुद्धेर्मङ्गलकार्यकृत्त्वे। अमङ्गलस्य 10 स्वरूपेण मङ्गलस्यापि तथात्वापत्तराह मङ्गलेति।®चो विशेषार्थः।®मङ्गलत्वेति 10 विघ्नविध्वंसादि। 8 (r) सुवर्णकार्य दारिद्मनाशादि। 9 काञ्चनकार्यकृद्भवतीति शेषः।® काञ्चनमपि काञ्चनकार्यकृत् भवतीतिशेषः। 0 मङ्गलं मङ्गलबुद्ध्या गृह्यमाणं तत्कार्यकृदितिनियमे।® तस्य च 1-3-4 / (r) अनुमानस्य / 0 मङ्गलत्रयस्य अविघ्नसमाप्त्यादिकार्यत्रयस्य पृथक्पृथक्तया साधकत्वात् / (r) सिद्धम् / // 6 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy