________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ शास्त्रममङ्गलम्, तद्भेदान्यथानुपपत्तेः, अमङ्गलस्य च सतोऽन्यमङ्गलशतेनापि मङ्गलीकर्तुमशक्यत्वात् तन्मङ्गलोपन्यासवैयर्थ्यम्, तदुपादानेऽनिष्ठावा, यथा प्रागमङ्गलस्य सतःशास्त्रस्य मङ्गलमुक्तम्, एवं मङ्गलान्तरमप्यभिधातव्यम्, आद्यमङ्गलाभिधानेऽपि तदमङ्गलत्वात्, इत्थं पुनरप्यभिधातव्यमित्यतोऽनिष्ठेति / अथाभिन्नम्, एवं सति शास्त्रस्यैव मङ्गलत्वात् अन्यमङ्गलोपादानानर्थक्यमेव, अथ मङ्गलभूतस्याप्यन्यन्मङ्गलमुपादीयत इति, एवं सति तस्याप्यन्यदुपादेयमित्यनवस्थानुषङ्ग एव, अथानवस्था नेष्यत इति मङ्गलाभावप्रसङ्गः कथं? यथा मङ्गलात्मकस्यापि सतः शास्त्रस्य अन्यमङ्गलनिरपेक्षस्यामङ्ग याप्यन्यमङ्गलशून्यस्य, इत्यतो मङ्गलाभाव इति / अत्रोच्यते- आद्यपक्षोक्तदोषाभावस्तावदनभ्युपगमादेव, तदभ्युपगमेऽपि च मङ्गलस्य लवणप्रदीपादिवत् स्वपरानुग्रहकारित्वादुक्तदोषाभाव इति। चरमपक्षेऽपिन मङ्गलोपादानानर्थक्यम्, शिष्यमतिमङ्गलपरिग्रहाय शास्त्रस्यैव मङ्गलत्वानुवादात्, एतदुक्तं भवति-कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं गृह्णीयात्?, अतो मङ्गलमिदं शास्त्रमिति कथ्यते। आह-यद्यपि मङ्गलमिदंशास्त्रमित्येवं न गृह्णाति विनेयस्तथापि तत् स्वतो मँगलरूपत्वात् स्वकार्यप्रसाधनायालमेवेति कथं नानर्थक्यं?, न, अभिप्रायापरिज्ञानात्, इह मङ्गलमपिमङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलं भवति, साधुवत्, तथाहि 0 मङ्गलभेदवत्त्वस्य। ॐ न पर्यवसानम्। ॐ शास्त्रस्य / 7 मङ्गलरूपस्याप्यन्यन्मङ्गलकरणे। 9 मूलक्षयकरीति (अन्यद्वितीयमङ्गलकरणाभावात्)। OR मङ्गलभूतस्यापि 1-4 / त्वं 1-4-5 10 कृतस्य / 7 द्वितीयेति। द्वितीयकरणाभावात्।®शास्त्रे संपन्नः।®भेदेति® अनिष्ठालक्षणेति। DS अभेदपक्षे / 7 सिद्धस्य कथनम् / (r) इष्टनमस्कारादिमङ्गलविधानद्वाराऽनूद्यते। शास्त्रम्।® अन्यनमस्कारादिमङ्गलनिरपेक्षत्वेन / (r) निर्विघ्नपारगम8 नादि 10 मङ्गलरूपस्यापि मङ्गलकरणे।® मङ्गलकार्यकृत् /