SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 4 // हेतुत्वदर्शनात्, कृषीवलादिवत्, इत्यलं प्रसङ्गेन। साम्प्रतं मङ्गलमुच्यते- यस्मातू श्रेयांसि बहुविघ्नानि भवन्ति इति, उक्त च- श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि। अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः॥ 1 // इति। आवश्यकानुयोगश्च / / अपवर्गप्राप्तिबीजभूतत्वात् श्रेयोभूत एव, तस्मात्तदारम्भे विघ्नविनायकाद्युपशान्तये तत् प्रदर्श्यत इति। तच्च मङ्गलं शास्त्रादौ / मध्ये अवसाने चेष्यत इति / सर्वमेवेदं शास्त्रं मङ्गलमित्येतावदेवास्तु, मङ्गलत्रयाभ्युपगमस्त्वयुक्तः, प्रयोजनाभावात् इति चेत्, न, प्रयोजनाभावस्यासिद्धृत्वात् / तथाच कथं नु नाम विनेया विवक्षितशास्त्रार्थस्याविघ्नेन पारं गच्छेयुः? अतोऽर्थमादिमङ्गलोपन्यासः, तथा स एव कथं नु नाम तेषां स्थिरःस्याद्? इत्यतोऽर्थं मध्यमङ्गलस्य, स एव च कथं नु नाम शिष्यप्रशिष्यादिवंशस्य अविच्छित्त्या उपकारकःस्याद्? इत्यतोऽर्थं चरममङ्गलस्य इत्यतो हेतोरसिद्धता इति / तत्र आभिणिबोहियणाणं, सुयणाणं चैवे त्यादिनाऽऽदिमङ्गलमाह तथा वंदण चिति कितिकम्मइत्यादिना मध्यमङ्गलम्, वन्दनस्य / विनयरूपत्वात्, तस्य चाभ्यन्तरतपोभेदत्वात्, तपोभेदस्य च मङ्गलत्वात् / तथा “पच्चक्खाणं" इत्यादिना चावसानमङ्गलम्, प्रत्याख्यानस्याद्यतपोभेदत्वादेव मङ्गलत्वमिति // तत्रैतत्स्यात्, इदं मङ्गलत्रयं शास्त्राद्भिन्नमभिन्नं वा?, यदि भिन्नमतः Oनियुक्तिकृता साक्षादुक्तत्वात्। पृथगवतारणा।महान्तो विघ्नाः(पूर्वपदलोपा विघ्ननायकाः)10नियुक्तिरूपः।७कल्पत्वात् / आवश्यकानुयोगारम्भे। Oविघ्नेशानामादिना मध्यानाम्।शास्त्रार्थःस्यादौ १-४00शास्त्रस्येत्यध्याहार्यम् ।®तपोवन्निर्जरार्थत्वात्। ®निर्विघ्नसमाप्तिस्थैर्याव्यवच्छित्तिनिमित्तकेति।® मङ्गलप्रयोजनस्य शास्त्रेण साधनात्प्रयोजनान्तराभावादित्यर्थः। 9 विभक्तिथमन्ततसाद्याभाः इति तसन्तमव्ययम्, तथा चैतदर्थमिति। 9 शास्त्रार्थः। ®विनेयानाम् / (r) इत्यतः८- 4(r) उपन्यास इति / (r) प्रयोजनाभावरूपस्यगाथा 1 आदिशब्देनाद्यभागावसानपर्यन्तस्य ग्रहः।® नेरइओठ इत्यादिना ज्ञानस्य स्पष्टं निर्जरार्थत्वान्मङ्गलता।®गाथा वन्दनकनि०®द्वितीयभेदः / धम्मो मंगलमुक्किट्ठ अहिंसा संजमो तवो इति वचनात् / 7 बाह्येति। // 4 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy