SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पीठिक मल्लम श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 3 // कृतकृत्यत्वात्, प्रयोजनमन्तरेणार्थप्रतिपादूनप्रयासोऽयुक्तःइति चेत्, न, तस्य तीर्थकरनामगोत्रविपाकित्वात्, वक्ष्यति च - तं च कहं वेइज्जइ?, अगिलाए धम्मदेसणादीही त्यादिना / श्रोतॄणां त्वपरं तदर्थाधिगमः, परं मुक्तिरेवेति / कथं? ज्ञानक्रियाभ्यां मोक्षस्तन्मयं चावश्यकमितिकृत्वा, नावश्यकश्रवणमन्तरेण विशिष्टज्ञानक्रियावाप्तिरुपजायते, कुतः?, तत्कारणत्वात्तदवाप्ते:, तदवाप्तौ च पारम्पर्येण मुक्तिसिद्धेः, इत्यतः प्रयोजनवानावश्यकप्रारम्भप्रयास इति / तदभिधेयं तु सामायिकादि। सम्बन्धश्च उपायोपेयभावलक्षणः तर्कानुसारिणः प्रति, कथं?, उपेयं सामायिकादिपरिज्ञानम्, मुक्तिपदं वा, उपायस्तु आवश्यकमेव वचनरूपापन्नमिति, यस्मात्ततः सामायिकाद्यर्थनिश्चयो भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्यं क्रियाप्रयत्नश्च, तस्माच्च मुक्तिपदप्राप्तिरिति / अथवा उपोद्घातनिर्युक्तौ उद्देसे निद्देसे य इत्यादिना ग्रन्थेन सप्रपञ्चेन स्वयमेव वक्ष्यति / कश्चिदाह-अधिगतशास्त्रार्थानां स्वयमेव प्रयोजनादिपरिज्ञानात् शास्त्रादौ प्रयोजनाडुपन्यासवैयर्थ्यमिति, तन्न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेतुत्वात् तदुपन्यासोपपत्तेः / प्रेक्षावतां हि प्रवृत्तिर्निश्चयपूर्विका, प्रयोजनादौ उक्तेऽपि च अनधिगतशास्त्रार्थस्य तन्निश्चयानुपपत्तेः, संशयतःप्रवृत्त्यभावात्तदुपन्यासोऽनर्थकः इति चेत्, न, संशयविशेषस्य प्रवृत्ति& 0 प्रयोजनं परं मुक्तिः, सा प्राप्तकेवलत्वात् 'मोक्षे भवे चे' ति वचनान्नोद्देश्या, अवश्यम्भाविनी च सेति कृतकृत्वः / ॐ प्रयासस्य तीर्थकृतो वा। 0 (गाथा | 185) / 0 ग्रन्थेन। 7 अल्पवक्तव्यत्वात् सूचीकटाहन्यायेनादावपरम्। 0 सूत्रार्थोभयागमवाच्यावबोधः। ॐ परमपदानुकूला। ©आवश्यकश्रवणम्। 0-00 विशिष्टज्ञानक्रियावाप्तिः।®आवश्यकस्य / (r) ज्ञानाद्यापादकक्रियादि। (r) अपरप्रयोजनम्।®परप्रयोजनम्। 9 एवकारस्येष्टावधारणार्थत्वात् अपर-3 प्रयोजनस्य नान्यच्छास्त्रमुत्तराध्ययनादि परस्याप्यसामायिकादिमतोऽभावात् मुक्तेर्नान्यः कोऽपि उपायः। ®रचितम्।®आवश्यकात्।®चतुर्विंशतिस्तवादीना। ®श्रद्धानुसारिणः प्रतिधर्मोत्तरानुसारी व्यपोहवादी बौद्धः।® शास्त्रारम्भे। (r) प्रयोजनादेरुपन्यासस्य युक्तियुक्तत्वात् / (r) केवलशास्त्रस्य मूकत्वात् , शास्त्रार्थस्येति / (r) प्रयोजनादेः। 9 अनिष्टाननुबन्धीष्टसिद्धिसंशयस्य।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy