SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ पीठिका श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 2 // यद्यपि मया तथाऽन्यैः, कृताऽस्य विवृतिस्तथापि संक्षेपातू / तद्रुचिसत्त्वानुग्रहहेतोः क्रियते प्रयासोऽयम्॥२॥ इहावश्यक प्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात्, कण्टकशाखामर्दनवत् इत्येवमाद्याशङ्कापनोदाय प्रयोजनादि / म पूर्व प्रदर्श्यत इति, उक्तं च- प्रेक्षावतां प्रवृत्त्यर्थं, फलादित्रितयं स्फुटम् / मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये // 1 // इत्यादि। अतः प्रयोजनमभिधेयं सम्बन्धो मङ्गलं च यथावसरं प्रदर्यत इति / तत्र प्रयोजनं तावत् परापरभेदभिन्नं द्विधा, पुनरेकैकं कर्तृश्रोत्रपेक्षया द्विधैव , तत्र द्रव्यास्तिकनयालोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, इत्येषा द्वादशाङ्गी न / कदाचिन्नासीत्, न कदाचिन्न भविष्यति, न कदाचिन्न भवति इतिवचनात् / पर्यायास्तिकनयालोचनायां चानित्यत्वात्तत्सद्भाव इति / तत्त्वालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्य अर्थापेक्षया नित्यत्वात् सूत्ररचनापेक्षया चानित्यत्वात् कथञ्चित् / कर्तृसिद्धिरिति / तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादयितुः किं प्रयोजनमिति चेत्, न किञ्चित्, / (r) विवृतं विस्तरतोऽभियुक्तैरेभिरिति ध्वनितम्, चतुरशीतिसहस्रप्रमितं च तदिति प्रघोषः। ॐ अनेनास्याः समूलतामाह। 0 संक्षेपरुचिजीवोपकाराय तन्निमित्त माश्रित्येति वा। Oचिकीर्षितायामावश्यकविवृतौ। 9 सूत्रार्थोभयरूपस्यावश्यकस्य / अभिधेयसम्बन्धौ मङ्गलं च। 0 काकदन्तपरीक्षाषडपूपादिवाक्यदृष्टान्त8 योरुपलक्षकमिदम्। (c) पूर्वाचार्यैःप्ररूपितम्, मयेति शेषः / 7 चर्चितविषयसाम्मत्याय 10 अविघ्नेन पारगमनादिरूपेष्टार्थसिद्धिः।® सिद्धार्थं सिद्धसम्बन्ध श्रोतुं श्रोता प्रवर्त्तते इत्यादिवाक्यग्रहः।® उक्तनियमात्। (r) परं प्रकृष्टं अपरं तत्साधनभूतं फलम्। 0 उपदेशस्योभयाश्रितत्वात्। 9 इष्टावधारणार्थः, उभयोरुभयफलास्पदता तेन / (r) कर्तृप्रयोजनविचारे नत्थि नएहि विहूर्ण सुत्तं अत्थो व जिणमए किंची ति वचनान्नयविचारणामाह- तत्रेत्यादिना। (c) अर्थरूपस्य (जीवादेर्वाच्यस्य)।®सर्वक्षेत्रापेक्षया (विदेहेषु तु सर्वदाभावः सूत्रस्य) श्रुतवतामविनाशात्पर्यायाणां द्रव्याभेदात्।® इत्यभिप्रायवन्नन्द्यादिशास्त्रवाक्यात, तात्पर्य तु त्रिकालावस्थायित्वे / 0 उत्पत्तिभाववत्त्वात्।® कर्तृसद्भावः।®नययोरेकदेशग्राहित्वात्स्याद्वादश्रुतरूपप्रमाणविचारणादर्शनाय ।®गणभृद्विहितां सूत्ररचनामपेक्ष्य / (r) वयःशक्तिशीले इति तृन्, याजकादिभिरित्यस्याकृतिगणत्वाद्वा तृजपि।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy