SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 1 // | / / अहम् / / // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-४०-ग्रन्थाङ्कः-२९/१॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः / / ऐं नमः / चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ / तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमद्गणधरवरसुधर्मस्वामिविरचितं श्रीमद्भद्रबाहुश्रुतकेवलिततनियुक्तियुतं पूर्वधराचार्यविहितभाष्यभूषितं श्रीमद्भवविरहहरिभद्रसूरिसूत्रितवृत्त्यलङ्कतं श्रीआवश्यकसूत्रम्। प्रथमो विभागः प्रणिपत्य जिनवरेन्द्र, वीरं श्रुतदेवतां गुरून साधून् / आवश्यकस्य विवृतिं, गुरूपदेशादहं वक्ष्ये // 1 // अनेनाभीष्टदेवतास्तवः (अभियुक्तैरिज्यते इत्यभीष्टः) जिनाः अवधिजिनादयस्तेषु वराः केवलिनस्तेषामिन्द्रः। अनेनाभिमतदेवतास्तवः (अभिमन्यते विघ्नविघातकत्वेनेत्यभिमता शासनदेवतादिः)। 0 श्रुताधिष्ठात्री देवता श्रुतदेवता, श्रुतरूपा देवता श्रुतदेवतेतिविग्रहे तु नाभिमतदेवतात्वं किन्तु अधिकृतदेवतात्वं स्यात्, अस्या ज्ञानावरणीयक्षयोपशमसाधकत्वेन प्रणिपातो नानुचितः, सुयदेवये त्यादिवचनात् / अनेनाविरतत्वेऽपि श्रुतदेवतायाः स्तवनीयता ज्ञापिता, मिथ्यात्वापादनं तु सिद्धान्ताचरणोभयोत्तीर्णमेव / अनेनाधिकृतदेवतास्तवः (शास्त्रप्रणेतृत्वेनाधिक्रियते इत्यधिकृता)। साधुत्वाव्यभिचारादुपाध्यायवाचनाचार्यगणावच्छेदकादयः। // 1 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy