________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 317 // शक्रश्च तत्समक्ष लेखाचार्यसमक्षं भगवंतं तीर्थकरं आसने निवेश्य शब्दस्य लक्षणं पृच्छति / पाठान्तरं वा पुच्छिंसु सद्दलक्खणं, वागरणं अवयवा इंदं पृष्टवान् शब्दलक्षणम्, भगवता च व्याकरणमभ्यधायि, व्याक्रियन्ते लौकिकसामयिकाः शब्दा अनेनेति व्याकरणं- शब्दशास्त्रम्, तदवयवाः केचन उपाध्यायेन गृहीताः, ततश्च ऐन्द्रं व्याकरणं संजातमिति गाथार्थः॥ द्वारम् / विवाहद्वारावयवार्थमभिधित्सयाऽऽह भा०- उम्मुक्कबालभावो कमेण अह जोव्वणं अणुप्पत्तो। भोगसमत्थं णाउं अम्मापिअरोउ वीरस्स // 78 // एवं उन्मुक्तो बालभावो येनेति समासः, क्रमेण उक्तप्रकारेण अथ अनन्तरं यौवनं वयोविशेषलक्षणं बालादिभावात् पश्चात् प्राप्तः अनुप्राप्तः / अत्रान्तरे भुज्यन्त इति भोगा:- शब्दादयः तेषां समर्थो भोगसमर्थः तं ज्ञात्वा भगवन्तम्, कौ?- मातापितरौ तु वीरस्येति गाथार्थः॥ किं ? भा०-तिहिरिक्खंमि पसत्थे महन्तसामन्तकुलपसूआए। कारंति पाणिगहणं जसोअवररायकण्णाए॥७९॥ तिथिश्चऋक्षं च तिथिऋक्षम्, ऋक्षं-नक्षत्रम्, तस्मिन् तिथिऋक्षे, प्रशस्ते शोभने, महच्च तत्सामन्तकुलं च महासामन्तकुलं तस्मिन् प्रसूतेति समासः तया, कारयत: मातापितरौ, पाणेर्ग्रहणं पाणिग्रहणम्, कया?- यशोदा चासौ वरराजकन्या चेति विग्रहः तया, तत्र महासामन्तकुलप्रसूतया इत्यनेनान्वयमहत्त्वमाह- वरराजकन्यया इत्यनेन तु तत्कालराज्यसंपद्युक्ततामाहेति गाथार्थः / / द्वारम् / / अपत्यद्वारावयवार्थं व्याचिख्यासुराह___ भा०-पंचविहे माणुस्से भोगे भुंजितु सह जसोआए। तेयसिरिव सुरूवंजणेइ पिअदंसणं धूअं॥८॥ ®तओ वृत्तौ प्र०। | 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम् , वीरजिनादिवक्तव्यताः। भाष्यः 78 लेखनशाला एन्द्रव्याकरणं च। भाष्यः 79-80 वीरस्य पाणिग्रहणम् / // 317 //