________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 313 // भिर्निर्वर्तितं पूर्ववदवसेयम्, किञ्चित्प्रतिपादयन्नाह भा०- आभरणरयणवासं वुटुं तित्थंकरंमि जायंमि / सक्को अदेवराया उवागओ आगया निहओ॥६॥ आभरणानि- कटककेयूरादीनि रत्नानि- इन्द्रनीलादीनि तद्वर्षं- वृष्टिं तीर्थकरे जाते सति, शक्रश्च देवराज उपागतस्तत्रैव, तथा आगताः पद्मादयो निधय इति गाथार्थः॥ भा०-तुट्ठाओ देवीओ देवा आणंदिआसपरिसागा। भयवंमि वद्धमाणे तेलुक्कसुहावहे जाए // 63 / / तुष्टा देव्यः देवा आनन्दिताः सह परिषद्भिः वर्तन्त इति सपरिषदः भगवति वर्धमाने त्रैलोक्यसुखावहे जाते सतीति गाथार्थः॥ गतं जन्मद्वारम्, अभिषेकद्वारावयवार्थं प्रतिपादयन्नाह भा०-भवणवइवाणमंतरजोइसवासी विमाणवासी ।सव्विड्डीइ सपरिसा चउव्विहा आगया देवा // 64 // भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, विमानवासिनश्च सर्वा सपरिषदः चतुर्विधा आगता देवा इति गाथार्थः / ___ भा०- देवेहिं संपरिवुडो देविंदो गिव्हिऊण तित्थयरं / नेऊण मंदरगिरि अभिसेअंतत्थ कासीअ॥६५॥ देवैः संपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरिं अभिसेअंति अभिषेकं तत्र कृतवांश्चेति गाथार्थः॥ ___भा०- काऊण य अभिसेअंदेविंदो देवदाणवेहि समं / जणणीइ समप्पित्ता जम्मणमहिमंच कासीअ॥६६॥ कृत्वा चाभिषेकं देवेन्द्रो देवदानवैः सार्धम्, देवग्रहणात् ज्योतिष्कवैमानिकग्रहणम्, दानवग्रहणात् व्यन्तरभवनपतिग्रहणमिति / ततो जनन्याः समर्प्य जन्ममहिमांच कृतवान् स्वर्गे नन्दीश्वरे द्वीपे चेति गाथार्थः॥साम्प्रतं यदिन्द्रादयो भुवननाथेभ्यो भक्त्या प्रयच्छन्ति तदर्शनायाह 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। भाष्यः 62-65 वीरजन्म अभिषेकश्च। भाष्य: 66 जन्ममहिमा वृद्धिद्वारं च। // 313 //