________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ भा०- अह भणइणेगमेसिं देविंदो एस इत्थ तित्थयरो। लोगुत्तमो महप्पा उववण्णो माहणकुलंमि // 51 // अथ अनन्तरं भणति णेगमेसिं ति प्राकृतशैल्या हरिणेगमेषिं देवेन्द्रः एष भगवान् अत्र ब्राह्मणकुले लोकोत्तमो महात्मा उत्पन्न इति गाथार्थः॥ इदं चासाधु, ततश्चेदं कुरु भा०-खत्तिअकुंडग्गामे सिद्धत्थो नाम खत्तिओ अत्थि। सिद्धत्थभारिआए साहर तिसलाइ कुच्छिसि // 52 // क्षत्रियकुण्डग्रामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षाविति गाथार्थः॥ भा०- बाढंति भाणिऊणं वासारत्तस्स पंचमे पक्खे। साहरइ पुव्वरत्ते हत्थुत्तर तेरसी दिवसे // 53 // स हरिणेगमेषिः बाढंति भाणिऊणं ति बाढमित्यभिधाय, अत्यर्थं करोमि आदेशम्, शिरसि स्वाम्यादेशमिति, वर्षारात्रस्य पञ्चमे पक्षेमासद्वयेऽतिक्रान्ते अश्वयुग्बहुलत्रयोदश्यां संहरति पूर्वरात्रे-प्रथमप्रहरद्वयान्त इति भावार्थः, हस्तोत्तरायांत्रयोदशीदिवसे इति गाथार्थः॥ भा०- गयगाहा॥५४॥ भा०- एए चोद्दससुमिणे पासइ सा माहणी पडिनिअत्ते। जरयणी अवहरिओ कुच्छीऑमहायसो वीरो॥५५॥ पूर्ववत् / इदं नानात्वं- पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्यां रजन्यां अपहृतः कुक्षितः महायशा वीर इति गाथार्थः॥ भा०- गयगाहा // 56 // भा०- एएचोइस सुमिणे पासइ सा तिसलया सुहपसुत्ता / जंरयणिं साहरिओ कुच्छिसि महायसो वीरो॥५७॥ इदंगाथाद्वयं त्रिशलामधिकृत्य पूर्ववद्वाच्यम् ।गतमपहारद्वारम्, साम्प्रतमभिग्रहद्वारव्याचिख्यासयाऽऽह 0.3 उपोद्धातनियुक्तिः, 0.3.2 | द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। भाष्य:५१ कुलवर्णनम्। भाष्यः 52-57 गर्भसंहारः // 311 // // 311 //