SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 310 // स्पष्ट एव, नवरं अभिषेक:-श्रियः परिगृह्यते, दाम-पुष्पदाम रत्नविचित्रम्, विमानं च तद्भवनंच विमानभवनं-वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवप्रच्युतेभ्यः विमानं पश्यति, अधोलोकोद्वृत्तेभ्यस्तु भवनमिति, न तूभयमिति॥ भा०- एए चउदस सुमिणे पासइ सा माहणी सुहपसुत्ता। जरयणिं उववण्णो कुच्छिसि महायसो वीरो॥ 47 / / एतान् चतुर्दश महास्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता, यस्यां रजन्यामुत्पन्नः कुक्षौ महायशा वीर इति। पश्यतीति निर्देशः पूर्ववत्, पाठान्तरं वा एए चोद्दस सुमिणे पेच्छिआ माहणी ततश्च दृष्टवतीति गाथार्थः॥ 9 भा०- अह दिवसे बासीई वसइ तहि माहणीइ कुच्छिंसि / चिंतइ सोहम्मवई, साहरिउंजे जिणं कालो॥४८॥ अथ दिवसान् व्यशीतिं वसति तस्या ब्राह्मण्याः कुक्षाविति। अथानन्तरं एतावत्सु दिवसेषु अतिक्रान्तेषु चिन्तयति सौधर्मपतिःसंहर्तुं जे निपात: पादपूरणार्थः, जिनं कालो वर्त्तते इति गाथार्थः॥ किमिति संह्रियत इत्याह___भा०- अरहंत चक्कवट्टी बलेदवा चेव वासुदेवाय / एए उत्तमपुरिसान हु तुच्छकुलेसुजायंति // 49 // भावार्थः स्पष्ट एव, नवरं तुच्छकुलेषु असारकुलेषु इति / केषु पुनः कुलेषु जायन्ते इत्याह___ भा०- उग्गकुलभोगखत्तिअकुलेसुइक्खागनायकोरवे / हरिवंसे अविसाले आयंति तहिं पुरिससीहा // 50 // उग्रकुलभोजक्षत्रियकुलेषु इक्ष्वाकुज्ञातकौरव्येषु पुनः कुलेषु हरिवंशे च विशाले आयंति आगच्छन्ति उत्पद्यन्त इत्यर्थः तत्र उग्रकुलादौ पुरुषसिंहाः तीर्थकरादय इतिगाथार्थः // यस्मादेवं तस्माद्भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेषिमभिहितवान्- एष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेषपरिणतिवशात् तुच्छकुले जातः, तदयमितः संहृत्य क्षत्रियकुले स्थाप्यतामिति / स हि तदादेशात्तथैव चक्रे / भाष्यकारस्तु अमुमेवार्थं अह भणती त्यादिना प्रतिपादयति 0.3 उपोद्घात| नियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। भाष्य:४७ महास्वप्नाः। भाष्यः 48-50 कुलवर्णनम्। // 310 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy