________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 298 // 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 441-443 वीरभव वर्णनम्। तत्राशीतिं पूर्वशतसहस्राण्यायुष्कमनुपाल्य संसारेत्ति तिर्यग्नरनारकामरभवानुभूतिलक्षणे पर्यटित इतिगाथार्थः / / ४४०॥संसारे कियन्तमपि कालमटित्वा स्थूणायां नगर्यां जात इति, अमुमेवार्थं 'थूणाई' त्यादिना प्रतिपादयति नि०-थूणाइ पूसमित्तो आउंबावत्तरिंच सोहम्मे / चेइअअग्गिजोओ चोवट्ठीसाणकप्पंमि // 441 // स्थूणायां नगर्यां पुष्पमित्रो नाम ब्राह्मणः संजातः आउं बावत्तरि सोहम्मेत्ति तस्यायुष्कं द्विसप्ततिः पूर्वशतसहस्राण्यासीत्, परिव्राजकदर्शने च प्रव्रज्यांगृहीत्वा तांपालयित्वा कियन्तमपिकालं स्थित्वा सौधर्मे कल्पे अजघन्योत्कृष्टस्थितिःसमुत्पन्न इति। चेइअ अग्गिज्जोओ चोवट्ठीसाणकप्पंमीति सौधर्माच्च्युतः चैत्यसन्निवेशे अग्निद्योतो ब्राह्मणः संजातः, तत्र चतुःषष्टिपूर्वशतसहस्राण्यायुष्कमासीत्, परिव्राट् च संजातो, मृत्वा चेशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथार्थः / / 441 // नि०- मंदिरे अग्गिभूई छप्पण्णा उसणंकुमारंमि। सेअवि भारद्दाओ चोआलीसंच माहिंदे // 442 // ईशानाच्च्युतो मन्दिरैत्ति मन्दिरसन्निवेशे अग्निभूतिनामा ब्राह्मणो बभूव, तत्र षट्पञ्चाशत् पूर्वशतसहस्राणि जीवितमासीत्, परिव्राजकश्च बभूव, मृत्वा सणंकुमारंमीति सनत्कुमारकल्पे विमध्यमस्थितिर्देवः समुत्पन्न इति / सेअवि भारदाएँ चोआलीसंच माहिंदेत्ति सनत्कुमारात् च्युतः श्वेतव्यां नगर्यां भारद्वाजो नाम ब्राह्मण उत्पन्न इति, तत्र च चतुश्चत्वारिंशत् पूर्वशतसहस्राणि जीवितमासीत्, परिव्राजकश्चाभवत्, मृत्वा च माहेन्द्रे कल्पेऽजघन्योत्कृष्टस्थितिर्देवो बभूवेति गाथार्थः॥४४२॥ नि०- संसरिअथावरो रायगिहे चउतीस बंभलोगंमि। छस्सुवि पारिव्वजं भमिओतत्तो असंसारे // 443 // माहेन्द्रात् च्युत्वा संसृत्य कियन्तमपि कालं संसारे ततः स्थावरो नाम ब्राह्मणो राजगृहे उत्पन्न इति, तत्र च चतुस्त्रिंशत् 0ओ। // 298 //