SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 296 // कगृहे प्रवेशः, कस्य?, भरहेत्ति भरतस्य प्राकृतशैल्या पष्ठ्यर्थे सप्तमी, तथा पतनं चाङ्गलीयस्य बभूव, शेषाणां कटकादीनां 0.3 उपोद्घाततून्मोचनं अनुष्ठितम्, ततः संवेगः संजातः, तदुत्तरकालं ज्ञानमुत्पन्नमिति, दीक्षा च तेन गृहीता, चशब्दान्निर्वृत्तश्चेत्यक्षरार्थः॥ नियुक्तिः, 436 // उक्तमानुषङ्गिकं इदानीं प्रकृतां मरीचिवक्तव्यतां पृच्छतां कथयतीत्यादिना प्रतिपादयति-तत्र द्वितीयद्वारम्, नि०- पुच्छंताण कहेइ उवट्ठिए देइ साहुणो सीसे। गेलन्नि अपडिअरणं कविला इत्थंपि इहयंपि॥४३७॥ वीरजिनादिपृच्छतां कथयति, उपस्थितान् ददाति साधुभ्यः शिष्यान्, ग्लानत्वे अप्रतिजागरणं कपिल! अत्रापि इहापि। भावार्थः- स हि वक्तव्यताः। नियुक्तिः प्राग्व्यावर्णितस्वरूपो मरीचिः भगवति निवृत्ते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्मं जिनप्रणीतमेव,४३७-४३८ धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति साधुभ्यः शिष्यानिति / अन्यदा सग्लानः संवृत्तः, साधवोऽप्यसंयतत्वान्न प्रतिजाग्रति, मरीचेदुर्वचनं, स चिन्तयति- निष्ठितार्थाः खलु एते, नासंयतस्य कुर्वन्ति, नापि ममैतान् कारयितुं युज्यते, तस्मात् कञ्चन प्रतिजागर ब्रह्मदेवलोकः दीक्षयामीति, अपगतरोगस्य च कपिलो नाम राजपुत्रो धर्मशुश्रूषया तदन्तिकमागत इति, कथिते साधुधर्मे स आह- यद्ययं कपिलः, षष्टितन्त्र। मार्गः किमिति भवता एतदङ्गीकृतं?, मरीचिराह- पापोऽहम्, लोएंदिये त्यादिविभाषा पूर्ववत्, कपिलोऽपि कर्मोदयात् साधुधर्मानभिमुखःखल्वाह-तथापि किं भवदर्शने नास्त्येव धर्म इति, मरीचिरपि प्रचुरकर्मा खल्वयंन तीर्थकरोक्तं प्रतिपद्यते, वरं मे सहायः संवृत्त इति संचिन्त्याह- कविला एत्थंपित्ति अपिशब्दस्यैवकारार्थत्वात् निरुपचरितः खल्वत्रैव साधुमार्गेइहयंपित्ति स्वल्पस्तु अत्रापि विद्यते इति गाथार्थः॥ 437 // स होवमाकर्ण्य तत्सकाश एव प्रव्रजितः, मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिर्वर्तितः, त्रिपदीकाले च नीचैर्गोत्रं कर्म बद्धमिति // अमुमेवार्थं प्रतिपादयन्नाह नि०-दुब्भासिएण इक्केण मरीई दुक्खसायरंपत्तो। भमिओ कोडाकोडिं सागरसरिनामधेजाणं // 438 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy