SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्घात नियुक्तिः, 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 292 // द्वितीयद्वारम्, तस्य-भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह- त्रिपदीं दत्त्वा, रङ्गमध्यगतमल्लवत्, तथा आस्फोट्य त्रिकृत्व:- तिम्रो वारा इत्यर्थः, किंविशिष्टः सन् इत्यत आह- अभ्यधिको जातो हर्षो यस्येति समासः, तत्र स्थाने मरीचिः इदं वक्ष्यमाणलक्षणं भणति, वर्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः॥ 430 // नि०- जइ वासुदेवु पढमो मूआइ विदेहि चक्कवट्टितं / चरमो तित्थयराणं होउ अलं इत्तिअंमज्झ॥ 431 // यदि वासुदेवः प्रथमोऽहं मूकायां विदेहे चक्रवर्त्तित्वं प्राप्स्यामि, तथा चरमः पश्चिमः तीर्थकराणां भविष्यामि, एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, अलं पर्याप्तं अन्येनेति / पाठान्तरं वा अहो मए एत्तिअंलद्धं ति गाथार्थः॥ 431 // नि०- अहयं च दसाराणं पिआय मे चक्कवहिवंसस्स / अज्जो तित्थयराणं, अहो कुलं उत्तम मज्झ // 432 // अहमेव, चशब्दस्यैवकारार्थत्वात्, किं?, दशाराणां प्रथमो भविष्यामीति वाक्यशेषः, पिता च मे मम चक्रवर्तिवंशस्य। प्रथम इति क्रियाऽध्याहारः / तथा आर्यकः पितामहः स तीर्थकराणां प्रथमः, यत एवं अतः अहो विस्मये कुलमुत्तमं ममेति गाथार्थः // 432 // पृच्छाद्वारं गतम्, इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽह नि०- अह भगवं भवमहणो पुव्वाणमणूणगंसयसहस्सं / अणुपुव्वि विहरिऊणं पत्तो अट्ठावयं सेलं॥४३३॥ अथ भगवान् भवमथनः पूर्वाणामन्यूनं शतसहस्रं आनुपूर्व्या विहृत्य प्राप्तोऽष्टापदंशैलम्,भावार्थः सुगम एवेति गाथार्थः // 433 // नि०- अट्ठावयंमि सेले चउदसभत्तेण सो महरिसीणं / दसहि सहस्सेहि समं निव्वाणमणुत्तरं पत्तो॥ 434 // Oजारिसयेत्यत आरभ्य अन्तरा विहायैकादश सर्वा अपि भाष्यगाथा इति कस्यचिदभिप्रायः। वीरजिनादिवक्तव्यताः। नियुक्तिः 431-432 मरीचिचरित्रम्। नियुक्ति: 433 अष्टापदे निर्वाणम्। नियुक्ति: 434 अष्टापदे गमनंदशसाहस्त्रा मोक्षः। // 292 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy