________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 291 // नि०- सो विणएण उवगओ काऊण पयाहिणं च तिक्खुत्तो / वंदइ अभित्थुणंतो इमाहि महुराहि वग्गूहिं॥४२६॥ 8 0.3 उपोद्घातसः भरतः विनयेन-करणभूतेन मरीचिसकाशमुपागतःसन् कृत्वा प्रदक्षिणं च तिक्खुत्तो त्ति त्रिकृत्वः तिम्रो वारा इत्यर्थः, नियुक्तिः, 0.3.2 वन्दते अभिष्टुवन् एताभिः मधुराभिःवल्गुभिः वाग्भिरिति गाथार्थ : // 426 / / द्वितीयद्वारम्, नि०- लाहा हु ते सुलद्धाजंसि तुमं धम्मचक्कवट्टीणं / होहिसि दसचउदसमो अपच्छिमो वीरनामुत्ति // 427 // वीरजिनादि वक्तव्यताः। लाभाः अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः, स चैवकारार्थः, तस्य च व्यवहितः सम्बन्धः, ते तव सुलब्धा एव, नियुक्तिः यस्मात् त्वं धर्मचक्रवर्तिनां भविष्यसि दशचतुर्दशमः चतुर्विंशतितम इत्यर्थः, अपश्चिमो वीरनामेति गाथार्थः॥४२७ ॥तथा 426-430 आइगरु० (424) पूर्ववत् ज्ञेया। एकान्तसम्यग्दर्शनानुरञ्जितहृदयो भावितीर्थकरभक्त्या च तमभिवन्दनायोद्यतो भरत एवाह मरीचि चरित्रम्। नि०- णावि अपारिव्वजं वंदामि अहं इमं व ते जम्मं / जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि // 428 // नापि च परिव्राजामिदं पारिवाजं वन्दामि अहं इदं च ते जन्म, किन्तु यद्भविष्यसि तीर्थकरः अपश्चिमः तेन वन्दे इति गाथार्थः॥ 428 // तथा नि०- एवण्हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो। आपुच्छिऊण पिअरं विणीअणगरि अह पविट्ठो // 429 // एवं स्तुत्वा ण्हमि ति निपातः पूरणार्थो वर्त्तते, कृत्वा प्रदक्षिणां च त्रिकृत्वः आपृच्छ्य पितरं ऋषभदेवं विनीतनगरी अयोध्यां अथ अनन्तरं प्रविष्टो भरत इति गाथार्थः॥ 429 // अत्रान्तरे नि०- तव्वयणं सोऊणं तिवई आप्फोडिऊण तिक्खुत्तो। अब्भहिअजायहरिसो तत्थ मरीई इमं भणइ॥ 430 // 70 मुपगतः // 291 //