________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 278 // 39-43 स्वरूपः। भा०- होहिंति वासुदेवा नव अण्णे नीलपीअकोसिज्जा / हलमुसलचक्कजोही सतालगरुडज्झया दो दो॥३९॥ 0.3 उपोद्धात भविष्यन्ति वासुदेवा नव बलदेवाश्चानुक्ता अप्यत्र तत्सहचरत्वात् द्रष्टव्याः, यतो वक्ष्यति सतालगरुडज्झया दो दो, ते च सर्वे नियुक्तिः, 0.3.2 बलदेववासुदेवा यथासंख्यं नीलानि च पीतानि च कौशेयानि- वस्त्राणि येषां ते तथाविधाः, यथासंख्यमेव हलमुशल द्वितीयद्वारम्, चक्रयोधिनः हलमुशलयोधिनोबलदेवाः चक्रयोधिनोवासुदेवा इति, सह तालगरुडध्वजाभ्यां वर्त्तन्त इति सतालगरुडध्वजाः। वीरजिनादिएते च भवन्तो युगपद् द्वौ द्वौ भविष्यतः, बलदेववासुदेवाविति गाथार्थः॥ वासुदेवाभिधानप्रतिपादनायाह वक्तव्यताः। भाष्यः __ भा०-तिविठू अ१ दिवि 2 सयंभु 3 पुरिसुत्तमे 4 पुरिससीहे 5 / तह पुरिसपुंडरीए 6 दत्ते 7 नारायणे 8 कण्हे 9 // 40 // निगदसिद्धा / अधुना बलदेवानामभिधानप्रतिपादनायाह वासुदेव___ भा०- अयले 1 विजए 2 भद्दे 3, सुप्पभे 4 असुदंसणे 5 / आणंदे 6 णंदणे 7 पउमे 8, रामे 9 आवि अपच्छिमे // 41 // निगदसिद्धा॥वासुदेवशत्रुप्रतिपादनायाह__ भा०- आसग्गीवे 1 तारय 2 मेरय 3 मुहकेढवे 4 निसुंभे५।बलि 6 पहराए 7 तह रावणे 8 अनवमे जरासिंधू // 42 // निगदसिद्धा एव॥ भा०- एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं / सव्वे अचक्कजोही सव्वे अहया सचक्केहिं // 43 // एते खलु प्रतिशत्रवः- एते एव खलुशब्दस्य अवधारणार्थत्वात् नान्ये, कीर्तिपुरुषाणां वासुदेवानाम्, सर्वे चक्रयोधिनः, सर्वे च // 28 // हताः स्वचक्रैरिति- यतस्तान्येव तच्चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः, पुण्योदयात् वासुदेवं प्रणम्य तानेव व्यापादयन्ति / इति गाथार्थः // एवं तावत्प्रागुपन्यस्तगाथायां वर्णादिद्वारोपन्यासं परित्यज्य असंमोहार्थमुत्क्रमेण जिनादीनां नामद्वारमुक्तम्,