________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ 0.3.2 // 274 // समवसर प्रचुरत्वात्, आह भरतः- पृच्छापूर्वकं देयमिति / ततस्तान् पृष्टवन्तस्ते-को भवान्?, श्रावकः, श्रावकाणां कति व्रतानि?, 0.3 उपोद्घातस आह-श्रावकाणांन सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुव्रतानि, कति शिक्षाव्रतानि?, ते उक्तवन्तः-सप्त शिक्षाव्रतानि, नियुक्ति:, य एवंभूतास्ते राज्ञो निवेदिताः, सच काकिणीरत्नेन तान् लाञ्छितवान्, पुनः षण्मासेन येऽन्ये भवन्ति तानपिलाञ्छितवान्, द्वितीयद्वारम् Bषण्मासकालादनुयोगं कृतवान्, एवं ब्राह्मणाः संजाता इति / ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रव्रज्यां चक्रुः, वीरजिनादिपरीषहभीरवस्तु श्रावका एवासन्निति / इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकिणीरत्नं नासीत्, सुवर्णमयानि वक्तव्यताः। नियुक्ति: 362 यज्ञोपवीतानि कृतवान्, महायशःप्रभृतयस्तु केचन रूप्यमयानि, केचन विचित्रपट्टसूत्रमयानि, इत्येवं यज्ञोपवीतप्रसिद्धिः। अमुमेवार्थं समोसरणेत्यादिगाथया प्रतिपादयति णादिः। नि०- समुसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिआ। जेआ वड्डइ कागिणिलंछण अणुसज्जणा अट्ठ॥ 362 // समवसरणं भगवतोऽष्टापदे खल्वासीत्, भक्तं भरतेनानीतम्, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रहं पृष्टवान्, भगवांश्च तस्मै प्रतिपादितवान् / अंगुलि झय त्ति भरतनृपतिना देवलोकनिवासिरूपपृच्छायांकृतायां इन्द्रेण अङ्गलिः प्रदर्शिता, तत एवारभ्य ध्वजोत्सवः प्रवृत्तः / सक्क त्ति भरतनृपतिना किमनेनाहारेण कार्यमिति पृष्टः शक्रोऽभिहितवान्- त्वदधिकेभ्यो दीयतामिति, पर्यालोचयता ज्ञातं- श्रावका अधिका इति / जेया वड्डइत्ति प्राकृतशैल्या जितो भवान् वर्धते भयं भुक्तोत्तरकालं ते उक्तवन्तः, कागिणिलंछणत्ति प्रचुरत्वात् काकिणीरत्नेन लाञ्छनं-चिह्नं तेषां कृतमासीत् अणुसज्जणा अट्ठ त्ति अष्टौ पुरुषान् // 274 यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीर्थकरान् यावदिति गाथार्थः॥ तत ऊर्ध्वं मिथ्यात्वमुपगता इति // 362 // नि०- राया आइच्चजसो महाजसे अइबले अबलभद्दे / बलविरिए कत्तविरिए जलविरिए दंडविरिए य // 363 //