SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 273 // पूर्वः पूर्वो बाधितो द्रष्टव्य इति, यथा राजाऽवग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह-भगवन्! य एते श्रमणा 0.3 उपोद्धातमदीयावग्रहे विहरन्ति, तेषां मयाऽवग्रहोऽनुज्ञात इत्येवमभिधाय अभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयत्- अहमपि नियुक्तिः, 0.3.2 स्वमवग्रहमनुजानामीति, एतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान्- भक्तपानमिदमानीतं द्वितीयद्वारम् , अनेन किं कार्यमिति, देवराडाह- गुणोत्तरान् पूजयस्व, सोऽचिन्तयत्- के मम साधुव्यतिरेकेण जात्यादिभिरुत्तरा:?, वीरजिनादि वक्तव्यताः। पर्यालोचयता ज्ञातं- श्रावका विरताविरतत्वाद्गुणोत्तराः, तेभ्यो दत्तमिति / पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमद् दृष्ट्वा / नियुक्तिः 361 पृष्टवान्- किं यूयमेवंभूतेन रूपेण देवलोके तिष्ठत उत नेति, देवराज़ आह-नेति, तत् मानुषैर्द्रष्टुमपि न पार्यते, भास्वरत्वात्, उपदेशः, पुनरप्याह भरत:- तस्याकृतिमात्रेणापि अस्माकं कौतुकम्, तन्निदर्श्यताम्, देवराज आह- त्वमुत्तमपुरुष इतिकृत्वा एकमङ्गा शिष्यार्पणंच। वयवंदर्शयामीत्यभिधाय योग्यालङ्कारविभूषितां अङ्गलीमत्यन्तभास्वरामदर्शयत्, दृष्ट्वा च तां भरतोऽतीव मुमुदे, शक्राङ्गली चस्थापयित्वा महिमामष्टाहिकांचक्रे, ततःप्रभृति शक्रोत्सवप्रवृत्त इति / भरतश्च श्रावकानाहूय उक्तवान्- भवद्भिः प्रतिदिन मदीयं भोक्तव्यम्, कृष्यादि च न कार्यम्, स्वाध्यायादिपरैरासितव्यम्, भुक्ते च मदीयगृहद्वारासन्नव्यवस्थितैः वक्तव्यं- जितो भवान् वर्धते भयं तस्मान्मा हन मा हनेति, ते तथैव कृतवन्तः, भरतश्चरतिसागरावगाढत्वात् प्रमत्तत्वात् तच्छब्दाकर्णनोत्तरकालमेव केनाहं जित इति, आः ज्ञातं- कषायैः, तेभ्य एव च वर्धते भयमित्यालोचनापूर्वं संवेगं यातवान् इति। अत्रान्तरे लोकबाहुल्यात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः- नेह ज्ञायते-कः श्रावकः को वा नेति, लोकस्य ®स्वाव ग्रह। (c) मात्रेऽपि। 0 इमनलावितिपुंस्त्वापत्तौ औणादिक इमनि रूपम्, बाहुल्याद् अनुक्तान्महेः, तथा च हजनिभ्यामिमन्निति सूत्रेणेमन्, दीर्घादिस्त्वप्रस्तुत एव।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy