________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 272 // अथ तं प्रकटरूपं- विजातीयत्वात् दृष्ट्वा पृच्छति बहुर्जनो धर्मम्, कथयति यतीनां सम्बन्धिभूतं क्षान्त्यादि- लक्षणं ततोऽसाविति लोका भणन्ति- यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे तस्य परि- समन्तात् कथना परिकथना श्रमणास्त्रिदण्डविरता इत्यादिलक्षणा, पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः, पाठान्तरं वा अह तं पागडरूवं दक्षु पुच्छिसु बहुजणो धम्मं / कहतींसु जतीणं सो वियालणे तस्स परिकहणा॥१॥प्रवर्तत इति गाथार्थः॥ 360 // नि०-धम्मकहाअक्खित्ते उवट्ठिए देइ भगवओसीसे। गामनगराइआई विहरइ सो सामिणा सद्धिं // 361 // धर्मकथाक्षिप्तान् उपस्थितान् ददाति भगवतः शिष्यान्, ग्रामनगरादीन् विहरति स स्वामिना सार्धम्, भावार्थः सुगमः, इत्थं निर्देशप्रयोजनं पूर्ववत्, ग्रन्थकारवचनत्वाद्वाऽदोष इति गाथार्थः // 361 // अन्यदा भगवान् विहरमाणोऽष्टापदमनुप्राप्तवान्, तत्र च समवसृतः, भरतोऽपि भ्रातृप्रव्रज्याकर्णनात् संजातमनस्तापोऽधृतिं चक्रे, कदाचिद्भोगान् दीयमानान् पुनरपि गृह्णन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयंश्च तान् भोगैः निराकृतश्च चिन्तयामास- एतेषामेवेदानी परित्यक्तसङ्गानां आहारदानेनापि तावद्धर्मानुष्ठानं करोमीति पञ्चभिः शकटशतैर्विचित्रमाहारमानाय्योपनिमन्त्र्य आधाकर्माहतं च न कल्पते यतीनामिति प्रतिषिद्धः अकृताकारितेनान्नेन निमन्त्रितवान्, राजपिण्डोऽप्यकल्पनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो बभूव, तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तये भगवन्तमवग्रहं पप्रच्छ-कतिविधोऽवग्रह इति, भगवानाह- पञ्चविधोऽवग्रहः, तद्यथा- देवेन्द्रावग्रहः राजावग्रहः गृहपत्यवग्रहः सागारिकावग्रहः साधर्मिकावग्रहश्च, राजा भरताधिपो गृह्यते, गृहपति:- माण्डलिको राजा, सागारिक:- शय्यातरः, साधर्मिकः-संयत इति, एतेषां चोत्तरोत्तरेण 0प्रतिषिद्धे। 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्ति: 360 पारिव्राज्य उपदेशः। नियुक्ति: 361 उपदेशः, शिष्यार्पणंच। // 272 //