________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 270 // वक्तव्यताः। परित्यागात् संकुचितानि-अशुभकायव्यापारपरित्यागात् अङ्गानि येषांते तथोच्यन्ते, अहं तु नैवंविधो यतोऽतः- अजितेन्द्रिये 0.3 उपोद्घातत्यादि न जितानि इन्द्रियाणि- चक्षुरादीनि दण्डाश्च- मनोवाक्कायलक्षणा येन स तथोच्यते, तस्य अजितेन्द्रियदण्डस्य तुल नियुक्तिः, भवतु त्रिदण्डं मम चिह्नम्, अविस्मरणार्थमिति गाथार्थः / / 353 // द्वितीयद्वारम् , नि०-लोइंदिअमुंडा संजयाउ अहयं खुरेण ससिहो ।थूलगपाणिवहाओ वेरमणं मे सया होउ // 354 // वीरजिनादिमुण्डो हि द्विविधो भवति- द्रव्यतो भावतश्च, तत्रैते श्रमणा द्रव्यभावमुण्डाः, कथं?, लोचने इन्द्रियैश्च मुण्डाः संयतास्तु, अहं नियुक्तिः पुनर्नेन्द्रियमुण्डो यतः अतः अलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्राणिवधविरताः श्रमणा |352-356 वर्त्तन्ते अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपाताद्विरमणं मे सदा भवत्विति गाथार्थः // 354 // उद्वेगः, पारिवाज्यम्। नि०-निक्किंचणा य समणा अकिंचणा मज्झ किंचणं होउ। सीलसुगंधा समणा अहयं सीलेण दुग्गंधो // 355 // निर्गतं किञ्चनं- हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः तथा अविद्यमानं किञ्चनं-अल्पमपि येषां तेऽकिञ्चनाजिनकल्पिकादयः, अहं तु नैवंविधो यतः अतो मार्गाविस्मृत्यर्थं मम किञ्चनं भवतु पवित्रिकादि। तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः, अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तमिति गाथार्थः // 355 // तथा नि०- ववगयमोहासमणा मोहच्छण्णस्स छत्तयं होउ। अणुवाहणा य समणा मज्झंतु उवाहणा होन्तु // 356 // व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः, अहं तु नेत्थं यतः अतो मोहाच्छादितस्य छत्रकं भवतु / अनुपानत्काश्च श्रमणाः मम चोपानहौ भवत इति गाथाक्षरार्थः // 356 // तथा (r) काञ्चनम् / 7 ०शन अ०1 0 नाश्च जि० / 0 गाथार्थः / // 270 //